SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ 3 अध्य.१३ उचराध्यपनसूत्रम् ॥१९९॥ साख्यत् ॥ येनाहतास्मि नाट्यो-मत्तः स हि खेचरो नाम्ना ॥ १७६ ॥ मम तेजोऽसहमानो, मुक्त्वा विद्याकृतेत्र धामनि माम् ॥ विद्या साधयितुमगा-द्वंशकुडङ्गे स्वयं गहने ॥ १७७॥ तस्योद्धपदो धूम, पिवतो विद्याद्य सेत्स्यति स्वामिन् ! ॥ विद्याबलोर्जितबलः, परिणेष्यति मा ततः स कुधीः ॥ १५८ ॥ अथ तद्वधव्यतिकरे, तेनोक्त साधु कृतमिति ब्रुवती । मुमुदे भृशं कनी सा, प्रियलाभादप्रियोच्छेदात् ।। १७९ ।। अथ तामुदुओं कन्यां, गान्धर्वविवाहरचनया नृपभूः ॥ रमयन् विविधैः सुरत-स्तां क्षणदां क्षणमिवाक्षपयत् ॥ १८० ।। प्रातश्च खेचरीणां, ध्वनिमवनिधैवाङ्गजोऽम्बरे श्रुत्वा ॥ वियति भवति कस्यायं, ध्वनिरिति पप्रच्छ पुष्पवतीम् ? ॥१८१॥ सा प्रोचे प्रिय ! नाट्यो-न्मत्ताहत्वद्रिपोरिम जामी॥ भ्रातुः कृते विवाहो-पस्करमादाय सकलमपि | ।। १८२॥ खण्डाविशाखिकाऽऽख्ये, खेचरकन्ये मुधा समायातः ॥ कार्य ध्यातमितरथा, देवेन बन्यथा घटितम् ! ॥ १८३ ॥ ॥ [ युग्मम् ] तत्तावदपसर त्वं, यावत्सङ्कीर्त्य तव गुणान् प्रगुणान् ।। जानाम्यनयोर्भावं, त्वयि रागविरागयोः स्वामिन् ! ॥ १८४ ॥ रागे चलयिष्यामि, ध्वजमरुणं वीक्ष्य तं त्वमागच्छेः ॥ रागाभावे तु सितं, तश्च प्रेक्ष्यान्यतो गच्छेः॥१८५ ॥ अभयोपि ततो नृपभू-स्तस्थौ गत्वान्यतस्तदनुवृत्या ॥ अथ पुष्पवती श्वेतं, चलयामास क्षणात केतुम् ॥ १८६ ॥ तं च प्रेक्ष्य कुमारः, शनैः शनैः प्रस्थितोऽज्यतो गन्तुम् ॥ उल्लङ्घ्य वनं दुर्गम-मेकमविन्दत सरः सायम् ॥ १८७ ॥ तत्र स्नात्वा सलिलं, निपीय पीयूषसरसमथ सरसः ॥ निर्गत्य ब्रह्मसुत-स्तटमुत्तरपश्चिमं भेजे ॥ १८८ ॥ तत्र च कन्यां काश्चि-समीक्ष्य जलदेवतामिवाध्यक्षाम् ।। सफलं जन्म ममाभू-दोति नृपाङ्गजो दध्यौ ॥ १८९ ॥ तदर्शनामृतरसं, पायं पायं व्यपाय विकलं सः॥ ग्रीष्मे पयः पिबन्मके-पान्थ इव । परिणीय । २ नृपपुत्रः । । । ४ भगिन्यौ । ५ विवाहसामग्रीम् । ६ वजम् । . प्रत्यक्षाम् । ८ विनरहितम् । ९ मरुदेशाध्वन्यः । 44++ + स + S
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy