________________
उचराध्य यनपत्रम् ॥१९८॥
+re1-964-6444343445
ब्रह्मसुता, सम्यगवालोकयद्यावत् ॥ १६१ ॥ उद्धा धूम, पिवतः कस्यापि तावदतिपीनम् ॥ दृष्ट्वा 'कबन्धमुच रवापदनुतापसन्तापम् ॥ १६२ ॥ निमन्तुरपि हतोय, हा! विद्यासाधको मया कश्चित् ॥ तन्मां क्रीडारसिकं, घिगिति निनिन्दायमात्मानम्
दिप०१७ ॥ १६३ ॥ पुरतो गच्छंश्चैकं, प्रासादं सप्तभूमिकमपश्यत् ॥ अतिनन्दनेन परितः, परीतमुद्यानवलयेन ॥१६४॥ साक्षाद्दिवीव तस्मिनारूढो निर्जरीमिव सुरूपाम् ॥ कुवलयदलविपुलाक्षी-मद्राक्षीत्कन्यकामेकाम् ॥ १६५ ॥ सोथ शुभे ! कासि त्वं, तिष्ठसि वा कथमिहेत्यपृच्छत्तम् ? ॥धृतसाध्वसा ततः सा-ऽप्यदोऽवदद्गद्गदैर्वचनैः ॥१६६॥ वृत्तान्तोस्ति महान्मे, तद्वद कोसि त्वमिह किमायासीः१॥ इति तद्राि स मुदितो, वचनेनायोजयद्वदनम् ॥ १६७ ॥ पाश्चालपतेब्रह्म-प्रभुः सुतो ब्रह्मदत्तनामाहम् ।। इति सोवादीद्यावन्मुदिता सा तावदुत्तस्थौ ॥ १६८ ॥ नयनाञ्जलितो गलितैः, सा प्रमदा प्रमदवाष्पसलिलभरैः ॥ रचयन्ती पाधमिव, न्यपतच्च तदकिनलिनयुगे ॥ १६९ ॥ अत्राणयात्र मयका, दिष्टया शरणं शरण्य ! लब्धस्त्वम् ॥ इति च वदन्ती रुदन्ती, सुंदती साश्वासी भूपभुवा ॥१७०॥ पृष्टा च का ? त्वमिति सा, प्रोचेऽहं पुष्पचूलभूजानेः ॥ त्वन्मातुलस्य तनया, तुभ्यं दत्तास्मि पुष्पवती ॥१७१।। परिणयदिनोत्सुकां रम-माणामारामदीर्घिकालिने ॥ हुत्वाऽन्येधुर्विद्या-धराधमो मामिहानैषीत् । ॥ १७२ ॥ कालमियन्तं बन्धुजनविरहदावाग्नितप्तगात्राहम् ।। त्वदृष्टयाऽमृतवृष्टया, क्लिमा निर्वापिताद्य विभो। ॥१७३ ॥ क गतोस्ति ? स मे रिपुरिति,पृष्टा सा नृपसुतेन पुनरवदत् ॥ तेन किल पठितसिद्धा-पितास्तिा मे शाङ्करी विद्या ॥ १७४ ॥ सा हि स्मृता विधचे, परिच्छदीभूय कृत्यमखिलमपि ॥ विनयत्युपद्रवं मे, पृष्टा चाख्याति तद्वार्ताम् ॥ १७५ ॥ तां पृष्टेदं वच्मी-त्युक्त्वा स्मृत्वा च तां पुनः |
1 रुण्डम् । २ निरपराधी । ३ देवीम् । " धृतभया । ५ नलिनं कमलम् । ६ रक्षणरहितया । ७ शोभनदशना । ८ भूजानिः नृपः ।
AAAAAACHAR
॥१९८॥