________________
पनसूत्रम्
६ नीत्वाश्रममुपकुलपति, निन्ये व्रतलिप्सुमिव सद्यः ॥ १४६ ॥ तं च प्रणतं प्रणया-दित्यलपत्कुलपतिः कृपाजलधिः ॥ कस्त्वं किमि
हायासी-योरपि दुर्गमे गहने ? ॥ १४७॥ नृपभूस्ततः स्ववृत्त, साह यथावृत्तमखिलमपि तस्मै ॥ तच्च श्रुत्वा कुलपति॥१९॥ रित्यवदत्तमदगद्गदगीः ॥ १४८ ॥ ब्रह्मनृपस्य भ्राता, लघुरहममि त्वदीयतातस्य ।। तत्प्राप्तोसि स्वगृहं, तिष्ठ सुखं वत्स! मा
भैषीः॥१४९ ॥ तेनेति बाढमुदितो, मुदितस्तत्राश्रमे कुमारोऽस्थात् ॥ आगाच्च जलदेकाला, काल इव निदाघेदाहस्य ॥ १५० ॥ | तमथ पितृव्या प्रेम्णा, सविशेषमपाठयत्कलाः सकलाः॥पात्रे दत्ता श्रीरिव, विद्या हि स्यादनन्तफला ॥ १५१ ॥ जातेथ शरत्काले, कन्दादिकृते वनं ययुर्मुनयः ॥ ब्रह्मसुतोपि समं तै-ययौ निषिद्धोपि कुलपतिना ॥ १५२ ॥ तत्र च फलकुसुमभरे
नमितानमितान् स भूरुहः पश्यन् ॥ बनगजमेकमपश्य-युवराजमिवाद्रिराजस्य ।। १५३॥ तस्यानुपदमयासी-निवार्यमाणोपि है तापसैपभूः ॥ तेनाहूतः सद्यो, ववले व्यालोपि रोषान्धः॥१५४॥ तटिनीपूरमिव द्रुत-मायान्तं तं च वश्चयितुं मनसा ॥ प्रक्षिप्तमु|त्तरीयं, क्रीडारसिकेन भूपभुवा ॥ १५५ ॥ तत्तु करेण गृहीत्वा, प्राक्षिपदन्तनभः क्रुधा कुम्भी॥ निपतच्च ततो नृपभू-स्तदाददे | वञ्चितद्विरदः ॥ १५६ ॥ क्रीडाभिरिति क्रीडति, तस्मिन् करिणा समं कृताटोपः ॥ जलधाराभिर्जलदः, शरैरिवोपाद्रवत्तमिभम्
॥ १५७ ॥ तस्मिस्ततः प्रणष्टे, द्विपे कुमारोपि जातदिग्मोहः ॥ भ्राम्यनितस्ततः शैल-निम्नगामुत्तारैकाम् ॥ १५८ ॥ तस्याश्च तटे |
नगरं, पुराणमुद्वसमुदीक्ष्य पतितगृहम् ॥ तत्र प्रविशन्नेकं, वंशकुडङ्गं ददर्श धनम् ॥१५९॥ तत्पार्श्वे फलकासी, दृष्ट्वा शस्त्रप्रियोऽगृही॥१९७॥ न्तृपभूः ॥ तं वंशकुडङ्गं चा-सिनाच्छिनत्तत्परिक्षायै ॥ १६०॥ तस्माद्विनिर्गतमथ, स्फुरदधरपुटं स्फुटं समीक्ष्य शिरः ॥ सम्भ्रान्तो
, वर्षाऋतुः । २ ग्रिष्मदाहस्य । ३ पुष्कलान् । ४ वृक्षः । ५-६-७ हस्ती । ८ गजे । ९ 'उजड' इति भा० ।