________________
अध्य०१३
अपसण्या बनस्त्रम् | ॥१९२॥
मतुलम् ॥ तस्या 'नलिनास्यायाः, कायस्पर्शस्य का वार्ता ? ॥ ७१ ॥ अन्तःपुरमन्तःपुरयुक्ते, राजनि गतेथ तौ नत्वा । सम्भूतमुनिर्विदधे, निदानमिति कामरागान्धः ॥ ७२ ॥ अतिदुष्करस्य यदि मे, तपसः स्यात्फलममुष्य किमपि तदा ॥ स्त्रीरत्नस्य खामी, भूयासं भाविनि भवेऽहम् ।। ७३ ॥ तच्च श्रुत्वा चित्रो, दध्यौ मोहस्य दुर्जयत्वमहो! । विदितागमोपि निपतति, यदयं संसारंवा| रिनिधौ ॥ ७४ ॥ तद्बोधयाम्यमुमिति, प्रोचे चित्रः करोषि किं ? भ्रातः! ॥ तपसोऽमुष्मात्किमिदं, कामयसे तृणमिव द्युमणेः ?
॥७५ ॥ क्षणिकाक्षणिकान् काङ्क्षति, भोगानपहाय निर्वतिसुखं यः॥ स हि काचसकलमुररी-करोति मुररत्नमपहाय! ।। ७६॥ | तहुःखनिदानमिदं, मुश्च निदानं विमुद्यसि कुतिन् । किम् ? ॥ इत्युक्तोपि स मुमुचे, न निदानं धिम् विषयतृष्णाम् ।। ७७ ॥ तावथ पूर्णायुष्को, सौधर्मे निर्जरावजायेताम् ॥ चित्रस्ततश्युतोभू-दिम्यसुतः पुरिमतालपुरे ॥७८ ॥ सम्भूतोपि च्युत्ता, काम्पील्यपुरे महर्दूिभररुचिरे ॥ चुलनीकृक्षिप्रभवो, ब्रह्मनृपस्याभवत्तनयः ॥ ७९ ॥ तस्य चतुर्दशमुखम-सूचितागामिसम्पदो मुदितः ।। विदधे सोत्सवममियां, ब्रह्मनृपो ब्रह्मदत्त इति ।। ८० ॥ ववृधे सोथ कुमारस, सितपक्षशशीव शुभकलाशाली ।। जगदानन्द जनयन् , वचोमृतेनातिमधुरेण ॥ ८१॥ अभवन् वयस्यभूपा-श्चत्वारो ब्रह्मणोथ तेष्वाद्यः ॥ कटकः काशीशोऽन्यः, कणेरुदत्तो गजपुरेशः॥ ८२॥ दीर्घश्च कोशलेश-श्वम्पानाथश्च पुष्पचूलनृपः॥ सामान्यमिव व्यक्तिषु, तेषु स्नेहोभवद्यापी ॥८३॥ पश्चापि ब्रह्माद्या-स्तेन्योन्यं विरहमक्षमाः सोढुम् ॥ एकैकपुरे न्यवसन्, प्रतिवर्ष संयुतः क्रमशः ॥ ८४ ॥ काम्पील्यपुरेऽन्येयुः, सममायातेषु तेषु परिपाट्या ॥ ब्रह्मनृपस्य कदाचि-किछरोव्यथा दुस्सहा जज्ञे ॥ ८५ ॥ जातद्वादशवर्ष, न्यस्याङ्के ब्रह्मदत्तमथ |
, कमलमुख्याः । २ संसारसमुद्रे । ३ काचखण्डम् । ४ देवी
ॐ-35
॥१९॥