________________
उपराष्य
वनसूत्रम् ॥१९१॥
!
॥१९१॥
श्रुत्वा ॥ इत्यूचे भ्रातस्त्यज, रोषमिमं चरेणवनदहनम् ॥ ५६ ॥ देशोन पूर्वकोठ्या, यदर्जितं भवति विमलचारित्रम् ॥ तदपि हि कषायकलुषो, हरयति यतिर्मुहूर्तेन ॥ ५७ ॥ सुलभा हि बालसङ्गा-दाक्रोशाघात मरणधर्मगमाः ॥ एषु च यथोत्तरस्या| भावे मनुते मुनिर्लाभम् ।। ५८ ।। अपकृतिकारिषु कोपः क्रियते चेत्कोप एव सक्रियताम् । यो हरति धर्मवित्तं, दत्ते |चानन्तदुःखभरम् || ५९ ॥ इत्यादि चित्रवाक्यैः श्रुतानुगामिमिरशामि तत्कोपः । पाथोधरंपाथोमि- गिरिदावानल इव प्रबल : ॥ ६० ॥ तं चोपशान्तमनसं, प्रणम्य लोका ययुर्निजं स्थानम् ॥ तौ च श्रमणो जग्मतु रुद्यानं दध्यतुश्चैवम् ॥ ६१ ॥ आहारार्थ प्रतिगृह - मटद्भिरासाद्यते व्यसनमुचैः ॥ गात्रं चैतद्गत्वर - माहारेणापि कृतपोषम् ।। ६२ ।। तत्क्रतसंलेखनयो-राहारैरावयोः कृतमिदानीम् ॥ इति तौ चतुर्विधाहा - रमनशनं चक्रतुः कृतिनौ ।। ६३ ।। कः पर्यभून्मयि नृपे सति यतिमिति पृच्छतो जनात् | राज्ञः । केनाप्यूचे नमुचि- स्तमथ नृपोऽबन्धयत्कुपितः ॥ ६४ ॥ पुनरप्येवं माऽन्यो, मान्यानपमानयत्विति महीमान् | पुर मध्ये नानैषी - दुपनि तं दस्युमिव बद्धम् ।। ६५ ।। तौ चावन्दत भूपोऽङ्कुरयन्निव मेदिनीं मुकुटकिरणैः ॥ तं चानन्दयतां चारुधर्मलाभाशिषा श्रमणौ ॥। ६६ ।। लभतामपराधी वः, स्वकर्मफलमयमिति ब्रुवन्नृपतिः ॥ शैमिनोरदर्शयदथो-पस्थितमरणं नमुचिसचिवम् || ६७ || मोक्तव्य एव राज-नयमित्युदितस्ततो नृपस्ताभ्याम् || निर्वास्य पुरादमुच - गुरुवचनाद्वध्यमपि तं द्राक् ।। ३८ ।। तौ नन्तुमथायासी-त्स्त्रीरत्नं चक्रिणः सुनन्दाख्या || देवीभिरिवेन्द्राणी, वृता सपत्नीभिरखिलाभिः ।। ६९ ।। तस्याश्च प्रणताया, वेणिलतास्पर्शमनुभवन् सद्यः ॥ सम्भूतोभूद्रक्तो ऽनङ्गस्यापि प्रबलताहो ? ॥ ७० ॥ दध्यौ चैवं यस्या, वेणिस्पर्शोपि सृजति सुख१ चरणं चारित्रम् । २ मेघजकैः । ३ पूज्यान् । ४ चौरम् । ५ मुम्योः ।
Slikk
अध्य०१३
|॥१९१॥