________________
अब
एचराध्यपनपत्रम्
॥१९॥
+-
+
श्रमणो, बिलीयते देह एव 'भृगुपातात् ॥ न तु पातकं ततोऽसौ, न युज्यते दक्षयोयुवयोः॥४१॥ दुःखानां बीजमंघ, तपसैव क्षीयते न मरणेन । तदिदं हेयं देहं, सफलीक्रियतां तपश्चरणैः ॥ ४२ ॥ ग्लानाविव वैद्यवच-स्तत्साधुवचः प्रपद्य तौ सद्यः॥ प्रावजतां तत्पाद्यं, क्रमादभूतां च गीतार्थौ ॥४३ ॥ षष्ठाष्टमादितपसा, ऋशयन्तौ विग्रहं समं पापैः॥ मृतौ तपाशमाविव, | सममेव विजहतुर्भुवि तौ ॥ ४४ ॥ विहरन्तौ तौ जग्मतु-रन्येयुर्हस्तिनापुरे नगरे ॥ बहिरुद्यानस्थौ तत्र, चेरतुर्दश्चरं च तपः ॥४५॥ सम्भूतमुनिनगरे, मासक्षपणस्य पारणेऽन्येयुः ॥ भिक्षार्थमटन् ददृशे, दुरात्मना नमुचि सचिवेन ॥ ४६॥ मातङ्गसुतः सोय, मम वृत्तं वक्ष्यतीति साशङ्कः ॥ निष्काश्यतां पुरादय-मित्यूचे निजभटान्नमुचिः॥४७॥ यमदतैरिव चण्डै-स्तैले कुटादिप्रहारदानपरैः॥ विधुरीकृतोथ साधु-द्रुतं न्यवर्तत ततः स्थानात् ।। ४८ ॥ निर्गच्छन्नपि स मुनि-नमुचिभटैन मुमुचे यदाऽपंदयैः ।। शान्तोपि चुकोप | तदा, स्यादुष्णं जलमपि ह्यनलात् ॥ ४९ ॥ तद्वदनाभिरगादथ, धूमस्तोमः समन्ततः प्रसरन् ।। तदनु च तेजोलेश्या, ज्वालापटलैनM भास्पृशती ॥५०॥ तद्वीक्ष्य सभयकौतुक-मेयुः पौरा मुनि प्रसादयितुम् ॥ आयासीत्पुरनाथः, सनत्कुमारश्च चक्रिवरः ॥५१॥ | नत्वा चैवमवोचत् , भगवन्नेतन युज्यते भवतः ॥ दग्धः कृशानुनापि हि, नागुरुरुद्रिति दुर्गन्धम् ॥५२॥ क्रियतामस्मासु कृपा, संहियतामाशु कोपफलमेतत् ।। व्यभिचरति सतां कोपः, फले खलानामिव स्नेहः ॥ ५३ ॥ उक्तं च-"न भवति भवति चन चिरं, भवति चिरं चेत् फले विसंवदति ॥ कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ॥५४॥" तन्मुश्च मुश्च कोपं, नीच| जनोचितमनश्चितं मुनिमिः । इत्युक्तोपि न यावत् , प्रससाद स साधुरतिकुपितः॥५५॥ तावत्तत्रायातः, चित्रस्तं व्यतिकरं जनात्
, सम्पापातात् । २ पापम् । ३ ताग्यम् । ४ शरीरम् । ५ बिवलीकृतः । । निर्दयैः । • अनलेन । “ निन्दितम् ।
+
+
+
॥१९॥
+%