________________
*
अध्य०१५
पनसूत्रम् ॥१८८॥
*
युग्मजी हरिणौ ॥१०॥ स्नेहात् सह विहरन्ती, मुक्तकशरेण मृगयुणा तौ च ॥ व्यापादितौ वराको, क्षिप्ताशनिना घनेनेव ॥११॥ अथ मृतगणातटिनी-तटस्थहंसीसुतावभूतां तौ ॥ बाल्यादपि भ्रमन्तौ, सममेव दृढानुरागेण ॥ १२ ॥ जालेन तौ निबध्या-न्य दाऽवधीजालिको गलं भक्त्वा ॥ विषवल्लेरिव दारुण-महो! फलं धर्मनिन्दायाः॥ १३ ॥ अथ तौ वाणारस्यां, प्रभूतवित्तस्य भूतदत्तस्य ॥ तनयावुभावभूतां, श्वपचपतेश्चित्र-सम्भूतौ ॥१५॥ वाणारस्यां च तदा, बभूव शङ्खाभिधो धराधिपतिः ॥ तस्य च दुर्मतिसचिवः, सचिवोऽभृन्नमुचिरिति नाम्ना ॥१५॥ अपगधे स च महति, प्रछन्नवधाय भूतदत्ताय ॥ दत्तो. ऽन्यदा नृपतिना, तं चेत्यूचे श्वपचनार्थः ।। १६॥ त्वां जीवयामि यदि मे, पुत्रौ पाठयसि भूमिगहस्थः ॥ नमुचिरपि प्रतिपेदे, तदपि वचो जीवितव्यकृते ॥ १७॥ अध्यापयच सततं, कला विचित्राः स चित्रसम्भूतो।। मातङ्गपतेः पत्नी-मनुरक्तामरमयच्च कुधीः ॥ १८ ॥ तच्चावबुद्धय रुष्टे, श्वपचपतौ इन्तुमुद्यते नमुचिम् ॥ त्वरितमनाशयतामुप-कारित्वाचित्रसम्भूतौ ॥ १९॥ निर्गत्य ततो नमुचि-द्रुतं ययौ हस्तिनापुरे नगरे ॥ तत्र च सनत्कुमार-श्चक्री तं धीसखं चक्रे ॥२०॥
इतश्च रूपमनिन्द्य, लावण्यमद्भुतं यौवनं च तौ नव्यम् ।। प्राप्तौ श्वपचसुतौ स्मर-मधुसमयाविव युतौ बभतुः ॥ २१ ॥ वीणावेणुकलक्वण-सम्बन्धसुबन्धुरं च नौ गीतम् ।। गायन्तौ नृत्यन्तौ, जगतोपि मनो व्यपाहरताम् ।। २२ ॥ अन्वेयुः पुरि तस्यां, मधू त्सवः प्रववृते महः प्रवरः॥ तत्राविगीतगीता, विनिर्ययुः पौरचयः ॥ २३॥ निरगाच चर्चरी तत्र, चित्र-सम्भूतयोरपि प्रवरा ॥ तत्र च जगतुर्गीतं, किन्नरमदहारि तौ स्फीतम् ।। २४ ॥ आकर्ण्य कर्णमधुरं, तद्गीतं विश्वकार्मणममन्त्रम् ॥ त्यक्तान्यचच्चरीकाः,
१ व्याधेन । २ अशनि विद्यत् । ३ तटिनी नदी। दुर्मतिसहायकः । ५ चाण्डालपतिः । । चाण्डालपतेः। • मन्त्रिणम् । ८ गायकजनयूथः ।
++HOK
ર૮૮.
ISICCH