SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ॥ अथ त्रयोदशमध्ययनम् ॥ पनपत्रम् ॥१८६॥ ॥ अहम् ।। व्याख्यातं द्वादशमध्ययनं, अथ त्रयोदशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने तपसि यत्नो विधेय इत्युक्तं, तपः कुर्वता च निदानं त्याज्यमिति निदानदोषं चित्र-सम्भूतोदाहरणेन दर्शयितुं चित्रसम्भूतीयाख्यमिदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादौ सूत्रत्रयम्मू०-जाईपराजिओ खलु, कासि निआणं तु हत्थिणपुरंमि। चुलणीइ बंभदत्तो, उववन्नो पउमगुम्माओ॥१॥ व्याख्या-जात्या-प्रक्रमाच्चाण्डालाख्यजात्या पराजित:-पूर्वभवे पराभूतो जातिपराजितः 'खलुः' वाक्यालङ्कारे "कासि” | त्ति अकार्षीत् निदानं' चक्रवर्तिपदप्राप्तिम भूयादित्येवं रूपं, 'तुः' पूत्तौं, हस्तिनापुरे नगरे। तदनु च चुलन्यां ब्रह्मदत्त 'उपपन्नः' उत्पन्नः 'पद्मगुल्मात्' नलिनीगुल्मविमानाच्च्युत्वेति शेषः । 'चुलन्यां ब्रह्मदत्त उत्पन्नः' इत्युक्तं, स च क ? इत्याहमू०-कंपिल्ले संभूओ चित्तो, पुण जाओ पुरिमतालंमि । सिट्टिकुलंमि विसाले, धम्मं सोऊण पवईओ॥२॥ ___ व्याख्या- 'काम्पील्ये' काम्पील्यनाम्नि नगरे 'सम्भूतः प्राग्भवे सम्भूताभिधः, चित्रस्य का वार्ता ? इत्याह-चित्रः पुनर्जातः 'पुरिमताले पुरिमतालपुरे श्रेष्ठिकले 'विशाले' पुत्रपौत्रादिभिर्विस्तीर्णे, प्राप्तयौवनश्च तथाविधाचार्यसमीपे धर्म श्रुत्वा प्रव्रजितः ॥ २ ॥ ततः किमित्याह हस्तिनागपुरे हर्षप्रती । ॥१८॥ १८॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy