SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ RECEI बचराज्य- तथा तैरेवाकाशे अहो! इत्याश्चर्य कोन्यः किलैवं दानं दातुं शक्तः इत्यहोदानं च 'घुष्ट' संशब्दितमिति सूत्रार्थः ॥ ३६ ॥ तच्च पनपत्रम् प्रेक्ष्य विस्मिता विप्रा अप्येवमाहुः काअध्ब०११ ॥१८॥ सक्खं खु दीसइ तवोविसेसो, न दसई जाइविसेसु कोई। सोवागपुत्तं हरिएससाहुँ, जस्सेरिसा इढि महाणुभागा 8 | व्याख्या-" सक्खं खु"ति 'खुशन्दो' अवधारणे, ततः साधादेव दृश्यते तपसो विशेषो-माहात्म्यं तपोविशेषः, 'न' नैव त दृश्यते 'जातिविशेषो' जातिमाहात्म्यरूपः कोऽपि' खल्पोपि । कुतः ? इत्याह-यतः श्वपाकपुत्रं हरिकेशसाधुं पश्यतेति शेषः, यस्य 'ईशी' दृश्यमानरूपा 'ऋद्धिः देवसानिध्य लक्षणा सम्पत् 'महानुभागा' सातिशयमाहात्म्या ! जातिविशेषे हि सति द्विजातीनामस्माकमेव देवाः सान्निध्यं विदध्युरिति सूत्रार्थः ॥ ३७॥ अथ स एव मुनिस्तानुपशान्तमिथ्यात्वानिव पश्यनिदमाह, मूलम्-किं माहणा जोई समारभंता, उदएण सोहिं बहिआ विमग्गह । जं मग्गहा बाहिरि विसोहिं. न तं सदिद कसला वयंति ॥ ३८॥ _ व्याख्या-'किमि ति क्षेपे, ततो न युक्तमिदं हे 'माहनाः ! ब्रामणा:! 'ज्योति'-अमिस्तं 'समारभमाणाः' प्रस्तावाद्यागं कुर्वन्त इत्यर्थः, 'उदकेन' जलेन 'शोधि' विशुद्धिं "बहिब"चि बायां 'विमार्गयर्थ' अन्वेषयथ । किमेवमुपदिश्यते ? इत्याह-8 ॥१८॥ यथ्यं मार्गयथ 'बायां स्नादिवायहेतुजां 'विशुद्धिं' निर्मलतां न तत् 'सुदृष्ट' मुष्ठ प्रेक्षितं 'कुशलाः' तत्त्वविदो वदन्तीति स्त्रार्थः MRcon ॥३८॥ एतदेव स्पष्टयति AS
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy