________________
चराभ्य
बनपत्रम् ॥१७९॥
AAAA
व्याख्या-'अर्चयामः' पूजयामः "ते" इति सुक्यत्ययात्त्वां हे महाभाग ! 'न' नैव "ते" तव 'किश्चित् ' चरणरेण्वादिकमपि नार्चयामः, तथा भुक्ष्व इतो गृहीत्वा " सालिमं "त्ति 'शालिमयं' शालिनिष्पन्नं 'कूर' ओदनं नानाव्यञ्जनैः' दयादिभिः अभ्य०११ | संयुतमिति सूत्रार्थः॥ ३४ ॥ अन्यच्च
मूलम्-इमं च मे अस्थि पभूअमन्नं, तं भुंजसू अम्हमणुग्गहहा।
बाढंति पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा ॥ ३५॥ व्याख्या-'इदं च' प्रत्यक्षत एव दृश्यमानं 'मे' मम अस्ति 'प्रभृतं' भरि 'अन' मण्डकखण्डखाद्यादि भोजनं तदे॒क्ष्व ★ अस्माकमनुग्रहार्थ, एवं तेनोक्ते मुनिराह-'बाढम् ' एवं कुर्मः 'इति' इत्येवं ब्रुवाण इति शेषः, 'प्रतिच्छति द्रव्यादिभिः शुद्धमिति ।
गृह्णाति भक्तपानं "मासस्स उ"त्ति 'मासस्यैव' मासक्षपणस्यैवान्ते इति गम्यं, पार्यते-पर्यन्तः क्रियते नियमस्थानेनेति पारणं, तदेव 'पारणक' भोजनमित्यर्थः, तमिन्महात्मेति सूत्रार्थः ॥ ३५ ॥ तदा च तत्र यदभूत्तदाहतहिअं गंधोदय पुप्फवास, दिव्वा तहिं वसुहारा य वुट्टा। पहयाओ दुंदुहीओ सुरेहि,आगासे अहो दाणं च घुटं।
व्याख्या-"तहि"ति 'तत्र' यज्ञपाटे गन्धोदकं च पुष्पाणि च गन्धोदकपुष्पाणि तेषां वर्ष-वर्षणं गन्धोदकपुष्पवर्ष सुरैरिति | | सम्बन्धात्कृतमिति गम्यते, नपुंसकलिङ्गनिर्देशश्चेह वर्षशब्दस्य पुनपुंसकलिङ्गत्वात् । 'दिव्या' श्रेष्ठा "तहिं"ति तत्र वसु-द्रव्यं तस्य 8 धारा-सततनिपातजनितासन्ततिर्वसुधारा, सा च 'वृष्टा' पातिता सुरैरिति इहापि योज्यते । तथा प्रहता 'दुन्दुभयो' देवानकाः सुरः।
॥१७॥