________________
उत्तराध्ययनसूत्रम्
॥४२॥
गुरुकुलवासं ण मुंचति ॥ १ ॥ " अथ यद्भगवता द्वाविंशतिः परीषहाः सन्तीत्याख्यातं तत्किमन्यतोऽवगम्य खतो वेति शिष्यसंशयं निराकर्तुमाह- श्रमणेन तपस्विना भगवता महावीरेण श्रीवर्द्धमानखामिना काश्यपेन काश्यपगोत्रेण 'पवेइअत्ति' सूत्रत्वात् प्रविदिताः प्रकर्षेण उत्पन्नकेवलज्ञानतया स्वयं साक्षात्कारित्वलक्षणेन विदिता ज्ञाताः नत्वन्योपदेशेनेति भावः ते च कीदृशा इत्याह- 'जे भिक्खू' इत्यादि यान् परीषहान् भिक्षुः साधुः श्रुत्वा गुरुपार्श्वे समाकर्ण्य, ज्ञात्वा यथावदवबुद्धय, जित्वा पुनः पुनरभ्यासेन परिचि तान् विधाय, अभिभूय सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षाचर्यायां भिक्षाटने परिव्रजन् समन्ताद्गच्छन् स्पृष्टः आश्लिष्टः प्रक्रमात्परीष| हैरेत्र 'नो' नैव विहन्येत संयमशरीरोपघातेन विनाशं लभेत, उदीर्यन्ते हि भिक्षाटने प्रायः परीषहा इति तद्ग्रहणम्, उक्तञ्च“भिक्खायरिआए बावीसं परीसहा उईरिजंतिचि " इत्युक्त उद्देशः । पृच्छामाह
मूलम् - करे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआए परिव्वयंतो पुट्ठो णो विहणेजा ॥
व्याख्या - कतरे किं नामानस्ते अनन्तरसूत्रोद्दिष्टाः खलु वाक्यालङ्कारे शेषं प्राग्वत् । निर्देशमाह
मूलम् - इमे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआए परिव्वयंतो पुट्टो णो विहणेज्जा ॥
व्याख्या - इमे हृदि वर्त्तमानतया प्रत्यक्षाः, ते इति ये त्वया पृष्टाः, शेषं प्राग्वत् ॥
अध्य०२ ॥४२॥