________________
उचराज्ययनसूत्रम
॥४१॥
॥ अथ द्वितीयमध्ययनम् ॥
।। अर्हम् ।। व्याख्यातं प्रथमाध्ययनमथ द्वितीयमारभ्यते, अस्य चायममिसम्बन्धः, इह पूर्वाध्ययने विनय उक्तः, स च स्वस्था वस्थैः परीषहार्त्तश्च विधेय एव, अथ के नामैते परीषदाः १ इति जिज्ञासायां तत्स्वरूपावेदकमिदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्य परीषहाध्ययनस्येदमादिसूत्रम् -
मूलम् - सुअं मे आउस तेण भगवया एवमक्खायं, इह खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ, जे भिक्खू सोच्चा णच्चा जिच्चा अभिभूय भिक्खायरिया परिव्वयंतो पुट्ठो णो वा ॥
व्याख्या - श्रुतमाकर्णितं मे मया आयुष्मन्निति शिष्यामन्त्रणम्, इदञ्च सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह, तेन जगत्रयप्रतीतेन भगवताऽष्टमहाप्रातिहार्यादिसमग्रैश्वर्ययुक्तेन एवममुना वक्ष्यमाणप्रकारेण आख्यातं कथितम्, किमाख्यातमित्याह 'इह खलुत्ति' अत्र खलुशब्दस्य एवकारार्थत्वात् इहैव जिनप्रवचने एव, न तु शाक्यादिशासने, द्वाविंशतिः परीषाहाः सन्तीति गम्यते, यदिवा 'आउ सं| तेणंति' मया इत्यस्य विशेषणं कार्यम्, यतश्च आवसता आगमोक्तमर्यादया वसता गुरुकुलवासे इति शेषः, अनेन च यावज्जीवं गुरुकुलवास एव सर्वथा वस्तव्यमित्याह, उक्तञ्च - " णाणस्स होह भागी, थिरयरओ दंसणे चरित्ते अ ।। घण्णा आवकहा जे,
अध्य०२ ॥४१॥