________________
उत्तराय-*
अच०१२
पनसूत्रम् ॥१७॥
मऊ
माधुकरी वृत्ति-मपि म्लेच्छकुलादपि ॥ एकाचं नैव भुञ्जीत, बृहस्पतिसमादपि ॥१॥" ततस्तान्येव मुनिलक्षणानि क्षेत्राणि सुपेश| लानीति सूत्रार्थः ॥ १५॥ इत्थमध्यापकं यक्षेणाधिक्षिप्तं वीक्ष्य तच्छात्राः माहुः
मूलम्-अज्झावयाणं पडिकूलभासी, पभाससे किं नु सगासि अम्हं ।
वि एअं विणस्सउ अन्नपाणं, न य णं दाहामु तुमं निअंठा!॥ १६ ॥ व्याख्या-'अध्यापकानां' उपाध्यायानां प्रतिकूलभाषी सन् त्वं 'प्रभाषसे' प्रकर्षेण ब्रूषे, 'किमि ति क्षेपे, 'नुरित्यक्षमायां, ततश्च धिग् भवन्तं न वयं क्षमामहे यदेवं भवान् ब्रूते 'सकाशे' पार्श्वऽस्माकम् । 'अपिः' सम्भावने, 'एतत्' प्रत्यक्षं 'विनश्यतु' कुथितादिमावं प्राप्नोतु अन्नपानं, 'न च' नैव 'ण' वाक्यालङ्कारे "दाहामु"त्ति दास्यामस्तव 'निर्ग्रन्थ । निष्किञ्चन ! गुरुप्रत्यनीको हि | भवानिति भाव इति सूत्रार्थः ॥ १६॥ यक्षः माह
मूलम्-समईहिं मज्झं सुसाहिअस्स, गुत्तीहिं गुत्तस्स जिइंदिअस्स ।
जइ मे न दाथि अहेसणजं, किमज जण्णाण लहित्थ लाभं? ॥ १७ ॥ व्याख्या-'समितिमिः' ईर्यासमित्यादिभिर्मा 'सुसमाहिताय' सृष्ठसमाधिमते 'गुप्तिभिः' मनोगुप्त्यादिभिः 'गुप्ताय' जितेन्द्रियाय, यदि 'मे' मा, पूर्वोक्त "मझ"ति पदस्य व्यवहितत्वात्पुनमें इति ग्रहणमदुष्टं, न दास्यथ, 'अर्थ'त्युपन्यासे, 'एषणीयं' एषणाविशुद्धमन्नादि तर्हि किं न किञ्चिदित्यर्थोऽद्य यज्ञानां "लहित्य'ति मत्रत्वात् 'लप्स्यध्वे' प्राप्स्यथ 'लाभ' पुण्यप्राप्तिरूपं ।
SHESARKARI
॥१७॥