________________
बष्य
यनरत्रम्
दिन्द्रगोपककीटवत् ॥२॥" न चेदशी किया ब्रह्मचर्यात्मिका कोपाद्युपेतेषु युष्मासु तत्त्वतः सम्भवत्यतो न तावजातिसम्भवः, तथा बचराध्य-] विद्यापि सम्यग्ज्ञानात्मिका न सम्भवत्येव भवत्सु, अज्ञानज्ञापकेषु बालक्रीडाप्रायेष्वग्निहोत्रादिषु प्रवृत्तिदर्शनाद , किश्च सम्यग्ज्ञा
नस्य फलं विरतिरेव, ज्ञानस्य फलं विरतिरिति वचनात् , न च युष्मासु विरतिसम्भवोस्ति, तदभावे च ज्ञानं सदप्यसदेवेति ॥१७०॥
* स्थितं । "ताई तु"त्ति 'तु: अवधारणे भिन्नक्रमश्च ततः 'तानि' भवद्विदितानि द्विजरूपाणि क्षेत्राणि' सुपापकान्येव न तु सुपेशलानि, | कोपादिपापस्थानकलितत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः ॥ १४ ॥ अथ कदाचित्ते ब्रूयुर्वेदविद्याविदो वयं ब्राझणजातयश्च तत्कथं । जाति विद्याविहीना इत्यब्रवीरित्याह
मूलम्-तुब्भेत्थ भो! भारधरा गिराणं, अटुं नयाणाह अहिज्ज वेए।
उच्चावयाई मुणिणो चरंति, ताई तु खित्ताई सुपेसलाई ॥१५॥ व्याख्या-यूयं "इत्थ"ति 'अत्र' लोके 'भोः' इत्यामन्त्रणे, 'भारधराः' भारवहाः 'गिरां' वाचां प्रक्रमाद्वेदसम्बन्धिनीनां ४ भारश्चेह तासां भूयस्त्वमेव, कुतो भारधराः? इति चेदुच्यते-यतः 'अर्थम्' अभिधेयं न जानीथ, “अहिज"ति अपेर्गम्यत्वादधीत्यापि
वेदान्, अथ चेदर्थ जानीथ तदा "न हिंसात्सर्वभूतानि" इत्यादिवेदवाचामथै विदन्तोपि किमर्थ पशुहिंसात्मकान् यागान् कुरुथ ? तत्करणे तु तत्वतो वेदविद्याविदोपि भवन्तो न स्युः, तत्कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः कानि तर्हि क्षेत्राणि ? इत्याह
"उच्चावयाई"ति उच्चानि-उत्तमानि अवचानि-अधमानि उच्चावचानि, गृहाणीति शेषः, मुनयः 'चरन्ति' भिक्षार्थ पर्यटन्ति, न तु ॥१७॥
युष्मद्वत्पचनाद्यारम्भप्रवृत्ताः, त एव तत्त्वतो वेदार्थ विदन्ति, तत्रापि भिक्षावृत्तेरेव समर्थितत्वात् , तथा च वेदान्तानुवादिनः-"चरे