SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ to पनरत्रम् ॥१६९॥ RAPHERI मूलम्-खेत्ताणि अम्हं विइआणि लोए, जहिं पकिण्णा विरुहति पुण्णा । जे माहणा जाइविजोववेआ, ताई तु खित्ताई सुपेसलाई ॥ १३ ॥ व्याख्या क्षेत्राणि अस्माकं 'विदितानि': ज्ञातानि, सन्दीति शेषः, 'लोके' जगति "जहि"ति वचनव्यत्ययात् 'येषु' क्षेत्रेषु । 'प्रकीर्णानि' दत्तानि, अशनादीनीति शेषः 'विरोहन्ति' जन्मान्तरे प्रादुर्भवन्ति 'पूर्णानि' समस्तानि, न चाहमपि तन्मध्यवयैवेति त्वया ध्येयं, यतो ये ब्राह्मणाः, जातिश्च-ब्राझणजातिरूपा, विद्या च-चतुर्दशविद्यास्थानात्मिका, ताभ्यां "उववेअ"ति उपपेताःअन्विताः जातिविधोपपेताः, "ताई तु"त्ति तान्येव क्षेत्राणि 'सुपेशलानि' शोभनानि न तु भवादशानि शूद्रजातीनि विद्याविकलानि । यदुक्तं-"सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणब्रुवे ।। सहस्रगुणमाचार्य, अनन्तं वेदपारगे ॥१॥” इति स्त्रार्थः ॥१३॥ यक्षः स्माहमूलम्-कोहो अ माणो अ वहो अ जेसिं, मोसं अदत्तं च परिग्गहो अ।। ते माहणा जातिविजाविहीणा, ताई तु खित्ताई सुपावगाइं ॥१४॥ व्याख्या-क्रोधश्च, मानश्च, च शब्दान्मायालोभौ च, वधश्च येषामिति प्रक्रमाद्भवतां बामणानां “मोसं"ति 'मृषा' अलीकPi भाषणं 'अदत्तं' अदत्तादानं चशब्दान्मैथुनं च, 'परिग्रहश्च' गोभूम्यादि स्वीकारोस्तीति सर्वत्र गम्यते, 'ते' इति क्रोधायुपेता यूयं जातिविद्याविहीनाः । कथमिति चेदुच्यते-क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था । यदुक्तं-"एकवर्णमिदं सर्व, पूर्वमासीधुधिष्ठिर! ॥ क्रियाकर्म विभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥१॥ ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पिकः। अन्यथा नाममात्र स्था 26555CE+
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy