________________
+
अध्या
+
उत्तराव्य
व्याख्या-'उपस्कृतं' संस्कृतं भोजनं 'माहनानां' ब्राह्मणानां "अत्तडि"ति आत्मार्थे भवं आत्मार्थिक, ब्राह्मणैरपि स्वयमेव पनपत्रम् भोज्यं न त्वन्यस्मै देयं, किमिति ? यतः 'सिद्धं निष्पन्न 'इह' यज्ञे एकः पक्षो-ब्राह्मणरूपो यस्य तदेकपक्षं, अयं भावः-यदत्रोप॥१६८॥
स्क्रियते न तद्ब्राह्मणव्यतिरिक्ताय दीयते, विशेषतस्तु शूद्राय । यत उक्तं- "न शूद्राय मतिं दद्या-बोच्छिष्टं न हविकृतम् ॥ न द चास्योपदिशेद्धम, न चास्य व्रतमादिशेत् ॥१॥" यतश्चैवमतो 'न तु' नैव वयं 'ईदृशं' उक्तरूपं अन्नपानं दास्यामस्तुभ्यं किमिह स्थितोऽसि ? इति सूत्रार्थः॥११॥ यक्षः प्राह
मूलम्-थलेसु बीआइं वपंति कासगा, तहेव निन्नेसु अ आससाए।
एआइ सद्धाइ दलाहि मज्झं, आराहए पुण्णमिणं खु खित्तं ॥१२॥ व्याख्या-'स्थलेषु' उच्च(भ)भागेषु 'बीजानि' मुद्दादीनि वपन्ति "कासग"ति "कर्षकाः' कृषीवलाः, तथैव स्थलवदेव 'निम्नेषु च नीचभूभागेषु "आससाए"त्ति 'आसंशया 'यदि भूयसी वृष्टिस्तदा स्थलेषु फलप्राप्तिरथ स्तोका तदा निम्नेषु' इत्येवंरूपया वाञ्छया 'एतया' कर्षकाशंसाकल्पया श्रद्धया "दलाहि"ति ददध्वं मह्यम् , अयं भावः-यद्यपि यूयं निम्नक्षेत्रतुल्यमात्मानं मन्यध्वे, माञ्च स्थलतुल्यं, तथापि मह्यमपि दातुमुचितं, न चैवं दत्तेपि न फलावाप्तिरिति ध्येयमित्याह-"आराहए पुण्णमिणं खु"त्ति खुश
ब्दस्य एवकारार्थस्य मिन्नक्रमत्वात् 'आराधयेदेव' साधयेदेव नानान्यथाभावः, 'पुण्यं शुभं 'इदं' दृश्यमानं 'क्षेत्रं' दानस्थानं पुण्यस॥१८॥
स्यप्ररोहहेतुतया आत्मानमेव एवं स्माहेति स्त्रार्थः ॥ १२ ॥ इति यक्षेणोक्त ते माहुः
+
+
+
॥१८॥
S