________________
उचराध्य
अध्य०१५
॥१६॥
+
व्याख्या-ईर्या च एषणा च भाषा च उच्चारश्च ईर्येषणाभाषोच्चाराः, एकारस्तूभयत्रापि सूत्रेऽलाक्षणिकः । तत्रोच्चार:-पुरीषं तत् परिष्ठापनमपीहोचार उक्तः, उपलक्षणश्चैतत् प्रश्रवणादिपरिष्ठापनस्य, तद्विषयाः समितयः, सम्यक्प्रवर्तनरूपा ईर्षेषणाभाषोच्चार| समितयस्तासु 'यतो' यत्नवान् , प्राच्यचशब्दस्य भिन्नक्रमत्वाद् 'आदाननिक्षेपे च' पीठफलकादिग्रहणस्थापने च यतः, किम्भूतः | सन्नित्याह-'संयतः' संयमयुक्तः, सुसमाहितः सुष्टु समाधिमानिति सूत्रार्थः॥२॥ मूलम्-मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। भिक्खट्टा बंभइज्जमि, जणवाडमुवडिओ ॥३॥
व्याख्या-मनो गुप्तमशुभाध्यवसायेभ्यो निवृत्तमस्येति मनोगुप्तः, एवं वाग्गुप्तः, कायगुप्तश्य, जितेन्द्रियः पुनरस्योपादानमतिशयख्यापकं, "भिक्खह"त्ति भिक्षार्थ "बंभइमि"त्ति ब्रह्मणां-ब्राह्मणानां इज्या-यजनं यस्मिन् स ब्रह्मज्यस्तस्मिन् , "जण्णवार्ड"ति यज्ञपाटे 'उपस्थितः' प्राप्त इति सूत्रार्थः ॥३॥ तदा चमूलम्-तं पासिऊणमेजंतं, तवेण परिसोसिअं। पंतोवहिउवगरणं. उवहसंति अणारिआ॥४॥ ____ व्याख्या-'त' बलमुनि "पासिऊण"ति दृष्ट्वा "एज्जत"ति आयान्तं 'तपसा' षष्ठाष्टमादिना 'परिशोषितं कृशीकृतं, तथा प्रान्तो. | जीर्णत्वमालिन्यादिना असार उपधिः-वर्षाकल्पादिरौधिक उपकरणञ्च-दण्डकादि औपग्रहिकं यस्य स प्रान्तोपध्युपकरणस्तं, उपहसन्ति । 'अनार्याः' अशिष्टा इति सूत्रार्थः ॥ ४॥ कथं पुनरनार्याः ? कथचोपाहसन् , इत्याहमूलम्-जाईमयपडित्थद्धा, हिंसगा अजिइंदिआ । अबंभचारिणा बाला, इमं वयणमब्बवी ॥५॥
+
+
+
+
॥१६॥
॥१६॥