SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ उचराध्वयनसूत्रम् ॥१५७ %खनन CA- व्याख्या-यथा सः नगानां प्रवरः 'सुमहान्' अत्यन्तं गुरुः 'मन्दरो गिरिः' मेरुपर्वतः नानौषधिभिः अनेकसमहिमवनस्पतिमिः प्रकर्षण ज्वलितो-दीप्तो नानौषधिप्रज्वलितः, औषधयो ह्यतिशायिन्यो दीपिका इव प्रज्वलन्त्य एव स्युस्ततो गिरिरपि प्रज्वलनिव स्यात् , एवं भवति बहुश्रुतः । सोपि श्रुतमहिम्नात्यन्तं स्थिरोऽपरशैलकल्पान्यसाध्वपेक्षया प्रवरोऽन्धकारेऽपि प्रकाशनिदानामोषध्यादिलन्धिसहितश्च स्यादिति सूत्रार्थः ॥ २९ ॥ किंबहुना?मूलम्-जहा से सयंभूरमणे, उदही अक्खओदए । नाणारयणपडिपुण्णे, एवं भवइ बहुस्सुए ॥३०॥ व्याख्या-यथा सः स्वयम्भरमण 'उदधिः' समुद्रः, अक्षयम्-अविनाशी उदक-जलं यत्र स, तथा नानारत्नैः-मरकतादिभिः प्रतिपूर्णी नानारत्नप्रतिपूर्णः, एवं भवति बहुश्रुतः । सोपि ह्यक्षयसम्यग्ज्ञानोदको नानातिशयरत्नाढ्यश्च भवतीति सूत्रार्थः ॥ ३० ॥ | अथोक्तगुणानुवादेन फलोपदर्शनेन च तस्यैव माहात्म्यमाह मृलम्-समुदगंभीरसमा दुरासया, अचकिआ केणई दुप्पधंसया। . सुअस्स पुण्णा विउलस्स ताइणो, खवित्तु कम्मं गइमुत्तमंगया ॥ ३१ ॥ व्याख्या-"समुहगंभीरसम"त्ति आर्षत्वाद्गाम्भीर्येण-अलब्धमध्यात्म केन गुणेन समा गाम्भीर्यसमाः, समुद्रस्य गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, समुद्रवद्गम्भीरा इत्यर्थः। "दुरासय"त्ति दुःखेनाश्रीयन्ते पराभवबुद्धया केनापीति दुराश्रयाः, अत एव 'अचकिताः' अत्रस्ताः 'केनचित् परीपहपरवाद्यादिना, तथा दुःखेन प्रधय॑न्ते केनापीति दुष्प्रधर्षकाः, "सुअस्स पुण्णा विउलस्स"त्ति मुपव्यत्ययात A ॥१५॥ IRCR ॥१५॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy