SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ MINS उत्तराभ्य मूलम्-जहा से तिमिरविद्धंसे, उत्तिहते दिवायरे। जलंते इव तेएणं, एवं भवइ बहुस्सुए ॥ २४ ॥ पनसूत्रम् __ व्याख्या-यथा सः 'तिमिरविध्वंस' तमःस्तोमविनाशकः 'उत्तिष्ठन्' उद्गच्छन् 'दिवाकरः सूर्यः, स हि ऊर्द्ध नभोभागमाक्रा॥१५॥ मन् भृशं तेजखितां भजते न त्ववतरन्नित्येवं विशिष्यते, 'ज्वलनिव' ज्वालां मुश्चन्निव 'तेजसा' महसा, एवं भवति बहुश्रुतः । सोपि हि अज्ञानध्वान्तविध्वंसी संयमस्थानेषु शुद्धशुद्धतमाद्यध्यवसायत उत्सर्पस्तपस्तेजसा ज्वलन्निव भवतीतिसूत्रार्थः ॥ २४॥ मूलम्-जहा से उडुवइ चंदे, नक्खत्तपरिवारिए । पडिपुण्णे पुण्णमासीए, एवं भवइ बहुस्सुए ॥२५॥ व्याख्या-यथा सः 'पौर्णमास्याः' पूर्णिमायाः 'उड्डुपतिः' नक्षत्राधिपश्चन्द्रो नक्षत्रैः-अश्विन्यादिभिरुपलक्षणत्वाग्रहतारकाभिश्च परिवारितः, पतिरपि कश्चिदेकाक्येव स्यान्मृगपतिवदिति उड्डुपतिरित्युक्तेऽपि नक्षत्रपरिवारित इत्युक्तं, 'प्रतिपूर्णः' सकलकलाकलितः, I * एवं भवति बहुश्रुतः। सोपि नक्षत्रकल्पानां साधूनां पतिस्तत्परिवारितः सकलकलाकलितत्वेन प्रतिपूर्णश्च स्यादिति सूत्रार्थः ॥२५॥ मूलम्-जहा से सामाइआणं, कोडागारे सुरक्खिए। नाणाधन्नपडिपुण्णे, एवं भवइ बहस्सुए ॥२६॥ व्याख्या-यथा सः "सामाइआण"ति समाज-समूहं समवयन्तीति सामाजिका:-समृहवृत्तयो लोकास्तेषां 'कोष्ठामारो' धान्याश्रयः सुष्टु-प्राहरिकपुरुषादिव्यापारणद्वारेण रक्षितचौरमूषकादिभ्य इति सुरक्षितः, नाना-अनेकप्रकाराणि धान्यानि-शाल्यादीनि तैः प्रतिपूर्णो-भृतो नानाधान्यप्रतिपूर्णः, एवं भवति बहुश्रुतः। सोऽपि सामाजिकानामिव गच्छवासिनामुपयोगिभिर्नानाधान्योपमैरङ्गो. ॥१५॥ पाङ्गप्रकीर्णकादिभेदैः श्रुतज्ञानविशेषः प्रतिपूर्णः प्रवचनाधारतया सुरक्षितश्च परवादिरोगादिभ्यो भवति । उक्तं हि-"जेण कुलं | R
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy