SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ वन०११ बनाम ॥१५३॥ Cि --+-+ व्यापा-यथा स 'तीक्ष्णशृङ्गो निशितविषाणः जातः-अत्यन्तमुपचितः स्कन्धोस्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचयोपलक्षणचैतत् , विराजते 'वृषभो' यूवाधिपतिर्मोसमूहखामी सन् , एवं भवति बहुश्रुतः । सोऽपि परपक्षक्षोदकतया तीक्ष्णाभ्यां खशा- | परशास्त्ररूपाभ्यां शृङ्गाम्यां शोभितो गच्छादिगुरुकार्यधुराधरणधुरीणतया च जातस्कन्ध इव जातस्कन्धः । अत एव यूथस्य-सानाll दिसमूहस्याधिपति:-आचार्यत्वं गतः सन् विराजते इति पत्रार्थः ॥ १९॥ मलम्-जहा से तिक्खदादे, उदग्गे दुप्पहंसए । सीहे मिआण पवरे, एवं भवइ बहुस्सुए ॥२०॥ ____ व्याख्या-यथा स तीक्ष्णदंष्ट्र ‘उदनः' उत्कट अत एव "तुप्पहंसर"ति 'दुष्प्रधर्षका' अन्यैः पराभवितुमशक्यः 'सिंहा' केसरी 'मृगाणाम्' आरण्यजन्तूनां प्रवरो भवति, एवं भवति बहुश्रुतः । अयमपि हि परपक्षभेदकत्वाचीक्ष्णदंष्ट्रादेश्वर्नेगमादिनयः प्रतिमादिगुणोदग्रतया च दुरभिभव इत्यन्यतीर्थ्यानां मृगतुल्यानां प्रवर एवेति सूत्रार्थः ॥२०॥ मूलम्-जहा से वासुदेवे, संखचक्कगदाधरे। अप्पडिहयबले जोहे, एवं भवइ बहुस्सुए ॥ २१ ॥ ___ व्याख्या-यथा स वासुदेवः, शङ्ख-पानजन्यं चक्रं-सुदर्शनं, गदां च कौमोदकी धरतीति शकचक्रगदाधरः । 'अप्रतिहतबल' अस्खलितसामर्थ्यः, अय भावः-एकं सहजसामर्थ्यवानन्यच्च तथाविधायुधान्वित इति 'योधः' मुभटा, एवं भवति बहुश्रुतः । सोपि ह्येकं सहजप्रतिभाप्रागल्भ्यवानपरश्च शङ्खचक्रगदातुल्यैः सम्यग्ज्ञानदर्शनचारित्रैरुपेत इति योधः कर्मवैरिपराभवं प्रतीति सूत्रार्थः २१ मूलम्-जहा से चाउरते, चक्कवट्टी महिदिए । चउदसरयणाहिवई, एवं भवइ बहुस्सुए ॥ २२ ॥ ॥१५३॥ ICC
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy