SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥१५॥ KAHABAR शाखालापतदासेवनादिरूपां 'लन्धुर' अवाप्तुम् 'अर्हति' योग्यो भवति, न तु तद्विपरीतोऽविनीतः । यश्च शिक्षा लभते समय बहुश्रुततोऽपरस्त्वबहुश्रुत इति भाव इति सूत्रार्थः॥ १४ ॥ एवं सविपक्षं बहुश्रुतं सप्रपञ्चमभिधाय तस्यैव स्तुतिद्वारेण पूर्वप्रतिज्ञातं तत्प्रतिपत्तिरूपमाचारमाहजहा संखमि पयं निहित्तं, दुहओ वि विरायइ । एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा 'सुयं ॥ १५ ॥ ___ण्याख्या-'यथे'त्ति दृष्टान्ते, शङ्ख 'पयो' दुग्धं 'निहित' न्यस्तं "दुहओवि"ति स्वसम्बन्ध्याश्रयसम्बन्धिगुणद्वयलक्षणेन प्रकारद्वयेनापपीति अपिशब्दार्थः, 'विराजते' शोभते, तत्र हि तन्न कलुषीभवति, न चाम्लतां भजते, नापि च परिश्रवति, 'एवम्' अनेन प्रकारेण । बहुश्रुते "भिक्खू"त्ति 'भिक्षौ' मुनी, 'धर्मो' मुनिधर्मः 'कीर्तिः' श्लाघा, तथा 'श्रुतम्' आगमो विराजते इति सम्बन्धः । अयं भाशाव:-यद्यपि धर्मकीर्तिश्रुतानि निरुपलेपतादिगुणेन स्वयं शोभावन्ति तथापि मिथ्यात्वादिकालुष्यापगमान्नमल्यादिगुणैः शङ्खसदृशे बहुश्रुते स्थितान्याश्रयगुणेन विशेषात् शोभन्ते, न च तत्र तानि मालिन्यमन्यथाभावं हानिच कदाचित प्रयान्तीति सूत्रार्थः ॥१५॥ पुनर्बहुश्रुतस्तवमेवाहमूलम्-जहा से कंबोआणं, आइण्णे कंथए सिआ। आसे जवेण पवरे, एवं भवइ बहुस्सुए ॥ १६ ॥ च्याख्या-यथा 'सः' इति प्रसिद्धः 'काम्बोजानां' कम्बोजदेशोद्भवानां अश्वानां मध्ये आकीर्णो गुणैरिति शेषा, 'कन्थको' १५ प्रधानोऽवो, यः किल दृपच्छकलमृतकुतपनिपातध्वनेनं सन्त्रस्यति, 'स्यात्' भवेदश्वो 'जवेन' वेगेन प्रवरः प्रधाना, 'एवम्' इत्यु-1 ॥१५॥ | प्रधानो
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy