SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ तदोष वक्ति । आह च-" एकसुकृतेन दुष्कृत-शतानि ये नाश्यन्ति ते धन्याः, न त्वेकदोषजनितो, येषां रोषः शतकृतः॥१॥" हराध्य इति ॥ ११ ॥ १२ ॥ कलहश्च-वाचिको विग्रहा, डमरश्च-पाणिघातादिजं तद्वर्जक: कलहडमरवजर्कः १२ । 'बुद्धों' बुद्धिमानेतच पनसूत्रम् ॥१५॥४॥ सर्वत्रानुगम्यत एवेति न प्रकृतसङ्ख्याविरोधः । अभिजाति-कुलीनतां गच्छति-जात्यवृषभ इवोत्क्षिप्तभारनिर्वहणादित्यभिजातिगः १३ । 'हीमान' लज्जावान् , स हि कलुषाशयत्वेप्यकार्यमाचरन लज्जते । प्रतिसंलीनो गुरुपार्श्वेऽन्यत्र वा स्थितो न हि कार्य विना यतस्ततश्चेष्टते १५ । प्रस्तुतमुपसंहरति, "सुविणीए"त्ति स एवंविधगुणान्वितः सुविनीत इत्युच्यते इति स्त्राष्टकार्थः ॥ १३ ॥ यश्चैवं विनीतः स कीदृक् स्यादित्याहमूलम्-वसे गुरुकुले णिच्चं, जोगवं उवहाणवं। पिअंकरे पिअंवाई, से सिक्खं लअमरिहई १४ ॥ ____ व्याख्या-'वसेत् तिष्ठेद् 'गुरुकुले' गच्छे 'नित्यं सदा गुर्वाज्ञोपलक्षणश्चतत्ततो यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेदित्यर्थः । योगः-व्यापारो धर्मस्य तद्वान्, उपधानम् अङ्गोपाङ्गाध्ययनादौ यथायोगमाचाम्लादिस्तपोविशेषस्तद्वान्, 'प्रियङ्करः कथञ्चित्केन चिदपकृतोपि न तत्प्रतिकूलं करोति, किन्तु ममैव कर्मणोऽसौ दोष इति ध्यायन् अप्रियकारिण्यपि प्रियमेव चेष्टत इत्यर्थः । अत एव M "पिअंबाइ"त्ति केनचिदप्रियमुक्तोपि प्रियमेव वदतीत्येवंशीलः प्रियवादी । आह च-"करयलमलिअस्स वि दमणयस्स महमहइ पेसलो गंधो । तविअस्स वि सजणमाणुसस्स महुरा समल्लावा ॥१॥" तथा चास्य को गुणः ? इत्याह-स एवंविधगुणवान् 'शिक्षा' । ये कोपः स च कृतन्नः इति श्रीने मिचन्द्रीया वृत्तौ । २ "करतळमुक्तिस्यापि दमनकस्य प्रसर्पति पेशलो गन्धः । तपितस्यापि सज्जनमानुषस्य मधुराः समुशापाः ||"कुवियस्स इति श्रीनेमिचन्द्रीया वृत्तौ । 18॥१५॥ ॥१५॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy