________________
उत्तराध्य
अध्य
११
पनपत्रम् ॥१४८॥
विनीत इत्युच्यते, "सो उ"त्ति स पुनरविनीतो 'निर्वाण' मोक्षं न गच्छति ॥ ६॥ चतुर्दशस्थानान्याह-'अमीक्ष्णं' पुनः पुनः क्रोधी भवति, सहेतुकमहेतुकं वा कुप्यनेवास्ते १ । प्रबन्धं च कोपस्यैवाविच्छेदरूपं “पकुबई"त्ति प्रकर्षण करोति, कुपितः सबनेकैरपि सान्त्वनैर्नोपशाम्यति २ । "मित्तिजमाणो"त्ति 'मित्रीयमाणोपि' मित्रं ममायमस्त्वितीध्यमाणोपि अपेलप्तस्य दर्शनाद् 'वमति' | त्यजति, प्रस्तावान्मैत्री, अयं भावः-यदि कोपि साधुर्धार्मिकतया वक्ति, यथाहं तव पात्रलेपादि कार्य कुर्वे इति, ततोसौ प्रत्युपकार| भीरुतया प्रतिवक्ति, ममालमनेनेति । यद्वा कृतमपि कृतघ्नतया न मन्यते इति वमतीत्युच्यते ३। तथा “सुअं"त्ति अपेर्गम्यत्वात् श्रुतमप्यागममपि लब्ध्वा माधति, दपै याति । श्रुतं हि मदापहं, स तु तेनापि दृप्यतीति भावः ४॥७॥ 'अपिः' सम्भावने, पापैः-कथञ्चित्समित्यादिषु स्खलितलक्षणैः परिक्षिपति-निन्दतीत्येवंशीलः पापपरिक्षेपी, आचार्यादीनामिति शेषः । गुरूणां समित्यादौ स्खलितलक्षणं पापं पुरस्कृत्य तानिंदतीत्यर्थः ५ । 'अपि.' भिमक्रमस्ततो 'मित्रेभ्योपि' सुम्योपि 'फुप्यति' कुध्यति, खत्रे सप्तमी चतुर्थ्यर्थे ६ । तथा 'सुप्रियस्यापि' अतिवल्लभस्यापि मित्रस्य 'रहसि' एकान्ते भाषते, पापमेव पापकं, अग्रतः प्रियं वक्ति पृष्ठतस्तु प्रतिसेवकोयमित्यादिकं तद्दोषमेवाविष्करोतीति भावः ७॥८॥ प्रतिज्ञया-इदमित्थमेवेत्येकान्तवादरूपया बदनशीलः प्रतिज्ञावादी, यद्वा प्रकीर्णमसम्बद्धं वदतीति प्रकीर्णवादी ८ । “दुहिले"ति द्रोहणशीलो द्रोग्धा, मित्रस्यापीति शेषः ९ । 'स्तब्धः। तपस्यहमित्याद्यहड्कृतिमान् १० । 'लुब्धो' भोज्यादिवमिकाङ्क्षावान् ११ । अनिग्रहः प्राग्वत् १२ । 'असं विभागी' आहारादिकं प्राप्यातिगईनो नान्यस्मै स्वल्पमपि यच्छति, किन्त्वात्मानमेव पोषयति १३ । "अविअत्ते"त्ति 'अप्रीतिकरः' इश्यमानो भाष्यमाणो वा सर्वस्याप्यप्रीतिमेवोत्पादयति १४ । एवंविधदोषान्वितोऽविनीत इत्युच्यते इति निगमनम् ॥९॥ इत्थमविनीतस्थानान्युक्त्वा
॥१४८॥
॥१४॥