________________
*
बनानम्
अभ्या
उत्तराज्य- मूलम्-बुद्धे परिनिव्वुडे चरे, गाम गए नगरे व संजए। संतिमग्गं च वूहए, समयं गोअम मा पमायए ॥३६॥
व्याख्या-'बुद्धो' ज्ञातहेयादिविभागः, 'परिनिर्वृतः कषायानिशान्त्या शीतिभृतः सन् 'चरे' आसेवस्व संयममिति शेषः, ॥१४४॥ IP "गाम"चि विभक्तिलोपात् ग्रामे 'गतः' स्थितो नगरे वा उपलक्षणत्वादरण्यादिषु वा सर्वत्रापि नीराग इति भावः, 'संयतः' सम्यक्पा
पस्थानेभ्यो निवृत्तः 'शान्तिमार्ग' मुक्तिमार्ग, चशब्दो भिन्नक्रमस्ततो 'बृहयेच' भव्यजनेभ्य उपदेशनाद्बुद्धिं नयेः, ततः समयमपि गौतम मा प्रमादीरिति सूत्रार्थः ॥ ३६ ।। इत्थं जिनोक्तमाकर्ण्य गौतमो यदकार्षीत्तदाह| बुद्धस्स निसम्म भासिअंसुकहिअमट्टपओवसोहिआरागंदोसंचछिंदिआ,सिद्धिं गई गएभयवंगोयमेत्तिबेमि॥ __व्याख्या-'बुद्धस्य' केवलालोकालोकितलोकालोकस्वरूपस्य श्रीवर्धमानस्वामिनो 'निशम्य' आकर्ण्य 'भाषितं वचः, सुष्ठु शोभनेन उपमादर्शनादिप्रकारेण कथितं, अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं, रागद्वेषं च छित्त्वा सिद्धिं गतिं गतो भगवान् गौतमः' प्रथमगणधर इति सूत्रार्थः॥ ३७॥ इति ब्रवीमीति प्राग्वत् ॥१०॥
444
TA
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमनिविमलगणिशिष्योपाध्याय- ||
श्रीभावविजयगणिसमर्थितायां श्रीउतराध्ययनसूत्रवृत्तौ दशमाध्ययनं सम्पूर्णम् ॥१०॥
॥१४॥
॥१४॥