SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य- | कतिचिदिनानि समुत्पाख्य क्वचिदुपलादिसले पथि अहो अहमनेन भारेणाक्रान्त इति तमुत्सृज्य गृहमागतोत्यन्तनिर्धनतयानुतप्यते, पनपत्रम् | किं मया निर्भाग्येन त्यक्तमिति । एवं त्वमपि प्रमादेन त्यक्तसंयमभारः सन्नेवंविधो मा भूः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥१४३॥ ॥३३ ॥ अथाल्पं तीर्ण बहु च तरणीयमित्यभिप्रायेणोत्साहभङ्गो मा भूदित्याह मूलम्-तिण्णो हुसि अण्णवं महं, किं पुण चिसि तीरमागओ। अभितुर पारं गमित्तए, समयं० ॥ ३४ ॥ व्याख्या-"तिण्णो हु सि"त्ति तीर्ण एवासि, अर्णवमिवार्णव-संसार, 'महान्तं' गुरुं, 'किमिति प्रश्न, 'पुनरि'ति वाक्योपन्यासे, ततः किं पुनस्तिष्ठसि ? तीरम् 'आगतः' प्राप्तः । भावतो हि अर्णवो भवः कर्म वा, स च द्विविधोपि त्वया तीर्णप्राय एवेति कथं तीरं प्राप्तोपि औदासीन्यं भजसे ? नैवेदं तवोचितमिति भावः। किन्तु "अभितुर"त्ति आभिमुख्येन त्वरस्व-शीघ्रो भव 'पारं' परतीरं भावतो | मुक्तिपदं “गमित्तए"त्ति गन्तुं । ततश्च समयमित्यादि प्राग्वदिति सूत्रार्थः ॥३४॥ न च मम पारप्राप्तियोग्यता नास्तीत्यपि ध्येयं, यतः8 मूलम्-अकलेवरसेणिमूसिआ, सिद्धिं गोअम लोअं गच्छसि । खेमं च सिवं अणुत्तरं, समयं० ॥ ३५ ॥ ___व्याख्या-न विद्यते कलेवर-वपुर्येषां ते अकलेवरा:-सिद्धास्तेषां श्रेणिं-उत्तरोत्तरशुभाध्यवसायरूपां क्षपकश्रेणिं "ऊसिअ"त्ति उच्छ्रुित्य उत्तरोत्तरसंयमस्थानावाप्त्या उच्छ्रितामिव कृत्वा हे गौतम ! त्वं 'सिद्धिं' सिद्धिसङ्गं लोकं "गच्छसि"त्ति विभक्तिव्यत्य॥१४॥ याद्गमिष्यसि, कीदृशं ? सिद्धिलोकमित्याह-क्षेम' परचक्रादिभयहीन, 'चः' समुच्चये, 'शिवम्' अशेषदुरितोपशान्तिकलितं, 'अनुत्तरं' सर्वोत्कृष्टं, ततः समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३५ ॥ अथ निगमयन्नुपदेशसर्वस्वमाह CHAHESHAR
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy