________________
उपराज्ययनसूत्रम् ॥ १४१ ॥
व्याख्या–‘त्यक्त्वा' परिहृत्य 'धनं' चतुष्पदादि, च शब्दो भिन्नक्रमस्ततो भार्यां च त्यक्त्वा, प्रव्रजितः प्रतिपन्नो "हि: " यस्मात् "सि" त्ति सूत्रत्वादकार लोपे 'असि' वर्चसे 'अनगारितां' मुनित्वं, अतो मा 'वान्तं' उद्गीर्ण 'पुनरपि' भूवोपि " आविए” ति आपिबेः । किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ २९ ॥ कथं वान्ताऽऽपानं न स्यात् ? इत्याह
मूलम् - अवउज्झिअ मित्तबंधवं, विउलं चैव धणोहसंचयं । मा तं बिइअं गवेसए, समयं ॥ ३० ॥
व्याख्या – 'अपोह्य' मुक्त्वा मित्राणि च बान्धवाश्थ मित्रबान्धवं 'विपुलं' विस्तीर्ण, 'चः' समुच्चये, 'एवः' पूर्ती, घनस्य-कनकादिद्रव्यस्य ओघः- समूहः तस्य सञ्चयः - कोशो धनौघसञ्चयस्तं मा तत् मित्रादिकं द्वितीयं पुनः स्वीकारार्थमिति शेषः, 'गवेषय' अन्वेषय | श्रामण्याश्रयणे हि तत्यक्तमिति वान्तोपमं भूयोपि तद्भवेषणे च वान्तापानमेव स्यादित्यभिप्रायः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३० ॥ इत्थं ममत्वोच्छेदार्थमुक्त्वा दर्शनशुद्धयर्थमाह
मूलम्-नहु जिणे अज्ज दीसई, बहुमए दीसई मग्गदेसिए । संपइ नेआउए पहे, समयं० ॥ ३१॥
व्याख्या - "नहु” नैव "जिनः' अन् 'अद्य' अस्मिन् काले दृश्यते, यद्यपीति गम्यं, तथापि "बहुमए "त्ति बहुमतः 'पन्थाः ' स च द्रव्यतो नगरादिमार्गो भावतस्तु ज्ञानादिरूपो मुक्तिमार्गः, इह च भावमार्ग एव गृह्यते, ततश्च मुक्तिमार्गे दृश्यते । कीदृशः १ | इत्याह- " मग्गदेसिए "त्ति मार्ग्यमाणत्वान्मार्गो - मोक्षस्तस्य "देसिए" ति सूत्रत्वादेशकः - प्रापको मार्गदेशकः । अयं भावः - यद्यप्यधुनानास्ति परं तदुपदिष्टो मार्गस्तु दृश्यते । न चेदृशोयमतीन्द्रियार्थदर्शिनं जिनं विना सम्भवतीत्यसन्दिग्धचेतसो भाविनोपि भव्या
॥ १४१ ॥
॥२४१०