SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ उपराज्ययंत्रम् ॥१३३॥ ॥१३३॥ मावित्वाद्ात्रिंदिवसमूहानां, 'अत्यये' अतिक्रमे "एवं ति एवंप्रकारं "मनुष्याणाम्' उपलक्षणत्वात्सर्वजीवानां 'जीवितम् ' आयुः, तदपि हिं रात्रि दिनगणानामतिक्रमे यथास्थित्वा अध्यवसायादिकृतोपक्रमेण वा प्रश्यतीत्येवमुच्यते । यतचैवमतः समयमपि आत्तानावलि-' कादि, अपेर्गम्यमानत्वात्, 'हे गौतम' ! हे इन्द्रभूते ! 'मा प्रमादी!' मा प्रमादं कृथाः, शेषशिष्योपलसिंह गौतमग्रहणे, | सर्वेषामनुशासनार्थत्वादस्य । अत्र च पाण्डुरकपदाक्षितं यौवन स्वाप्यनित्यत्वं प्रकटयितुं नियुक्तिकारी 'गाथाश्रयमाह -"परिगट्टि ळायण्णं, चलंतसंधिअंतविंटागं । पत्तं वसगप्पचं, कालप्पतं भणति गाहं ॥ १ ॥" 'परिवर्तितं - कालपरिणामादम्य थाकृतं लावण्यं - सौकुमार्यादिरूपमस्येति परिवर्तितलावण्यं, तथा चलत्सन्धि, अत एव "मुअंतर्विद्यागं" ति 'मुचन्तं' स्वजन्तं यस्य | तत्तथा पवदित्यर्थः । 'पत्र' पर्ण, 'व्यसनम्' आपदं प्राप्तं व्यसनप्राप्तं कालं प्रक्रमात्पतन प्रस्तावं प्राप्तं कालप्राप्तं, गपति माथां पल्लवान् प्रतीति शेषः ॥ १ ॥ तामेवाह - "जह तुम्हे तह अम्हे, तुब्भे वि अ होहिआ जहा अम्हे || अप्पाहेर पडतं, पंडुअपचं किसलयाणं ॥ २ ॥" यथेति सादृश्ये ततो यथा यूयं सम्प्रति किसलयभावं प्राप्ताः स्निग्धत्वादिगुणैर्गर्वमुद्वहथ अस्मांश्चोपहस्थ तथा वयमप्यतीतदशायामभवाम, तथा यूयमपि भविष्यथ यथा वयं विवर्णविच्छायतयोपसहनीयानीति भावः । " अप्पाहेइ चि पुत्रस्य पितेष. हिवसपदिशति, पतत्पाण्डुप किसलयानां ॥ २ ॥ ननु किमेवं पाण्डुपत्र पल्लवानामुल्लापः सम्भवति ? येनैवमुच्यत इत्याह- " नवि अत्थि नवि अ होहि उल्लाबो किसलपंडुपचाणं ॥ उवमा खलु एस कया, भविअजणविबोहणट्ठाए || ३ ||" स्पष्टा । यथा चेह किसलयानि पाण्डुपत्रेणानुशिष्यन्ते तथान्यपि यौवन गर्वितोऽनुशासनीयः । तथा चोतं वाचकमुख्यै:- " परिभवसि किमिति लोकं, जरसा परिजर्जरीकृतशरीरम् | अचिसन्नमपि भविष्यसि, यौवनगर्षे किमुद्वहसि ? ॥ १ ॥ तदेवं जीवितयौवनयोरनित्यतां ज्ञात्वा प्रमादो न ॥२३३॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy