SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ उचराध्य यन सूत्रम् ॥१२८॥ ॥ १२८ ॥ प्रासुकैर्भेषजादिभिः ।। चिकित्सां कारयिष्यामि, कण्डरीक महामुनेः ॥ ८४ ॥ तद्यूयं मे यानशाला - मलक्कुरुत सूरयः ! ॥ इत्युक्ता भूभृता तेऽपि तत्र गत्वावतस्थिरे ॥ ८२ ॥ चिकित्सका नृपादिष्टा, विविधैरौषधादिभिः । कण्डरीकं क्रमाञ्चकु -निरामय कलेवरम् ॥ ८६ ॥ ततो भूजानिमापृच्छय स्थविरा व्यहरंस्ततः । श्रमणानां हि नैकत्र, स्थितिरायतिशोभना ॥ ८७ ॥ कण्डरीकस्तु नाचालीद्राजभोज्येषु गृद्धिमान् || जिहेन्द्रियं हि जीवानां, मनोवदुर्जयं स्मृतम् ॥ ८८ ॥ तच्च ज्ञात्वा पुण्डरीक-स्तत्रागत्यान मच्चिराः ॥ तं त्रिप्रदक्षिणीकृत्या - वादीदेवं कृताञ्जलिः ।। ८९ ।। धन्यस्त्वं कृतकृत्यस्त्वं त्वया सफलितं जनुः || सन्त्यज्य राज्यभार्यादि, सर्व यत्स्वीकृतं व्रतम् ॥ ९० अहं त्वधन्यो निःसारं भूरिदुःखजलार्णवम् ॥ रिपुतस्कर दायादा धीनं विद्युल्लताचलम् ॥ ९१ ॥ विपाककटुकानित्यं, विषयाखादसुन्दरम् || अप्यवश्यं परित्याज्यं, राज्यं न त्यक्तुमीश्वरः ।। ९२ ।। [ युग्मम् ] इत्येकशो नृपेणोक्तः, स मुनिर्मोनमाश्रयत् । द्वित्रिरुक्तस्तु मन्दाक्ष-विलक्षो व्यहरत्ततः ॥ ९३ ॥ किञ्चित्कालं व्यहार्पीच, गुरुभिः सममुन्मनाः ॥ दुरावेश इवासाध्यः प्राणिनां हि दुराशयः ।। ९४ ।। अन्यदा तु नतोद्विद्मः परिभ्रष्टशुभाशयः ॥ कण्डरीको गुरून् मुक्त्वा, जगाम नगरीं निजाम् ॥ ९५ ॥ तंत्र भूपगृहोपान्त - स्थितोऽशोकतरोरधः ॥ न्यषीदगत सर्वख इव चिन्ताशताकुलः ॥ ९६ ॥ तदा च पुण्डरीकस्य, धात्री तत्र समागता | शोकाम्भोनिधिमनं तं दृष्ट्वा राज्ञे न्यवेदयत् ॥ ९७ ॥ ततो गुणोपि दोषाय, जात इत्यवधारयन् ॥ सान्तः पुरपरीवारो, भूपस्तत्राययौ उतम् ॥ ९८ ॥ तं त्रिप्रदक्षिणीकृत्य, नत्वा चोवाच पूर्ववत् ।। सत्वधान्मौनमेवैकं, दुष्टग्रहगृहीतवत् ॥ ९९ ॥ भूयो भूयोऽभ्यधात्को हि, हित्वा स्वर्नरकं श्रयेत् ॥ काचखण्डमुपादत्ते को वा त्यक्त्वा मरुन्मणिम् १ ॥ १०० ॥ प्राज्यं साम्राज्यमुत्सृज्य को वा वाञ्छति निःखताम् || को मुक्त्वा व्रतं भोगान्, कांक्षति क्षणभङ्गुरान् ॥ १०१ ॥ सत्यप्येवं यदि स्यात्ते, भोगेच्छा अध्य०१० ॥१२८॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy