SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ उंचराध्य वनसूत्रम् १२६॥ | ॥४७॥ "जगचिंतामणि जगनाह जगगुरु जगरक्खण, जगबंधव जगसत्थवाह जागभावविअक्खण । अठ्ठावयसंठविअरूव कम्मट्ठ १ विणासण, चउवीसं वि जिणवर जयंतु अप्पडिहयसासण ।। ४८ ॥ इति स्तुत्वा च नत्वा च, चैत्यान्निर्गत्य गौतमः ॥ उवास रात्रि-3/अभ्य०१० | वासाया -अशोकोऽशोकतरोस्तले ॥४९॥ इतश्च धनदः शक्र-दिक्पालौ नन्तुमर्हतः । तत्रायातो जिनामत्वा, ववन्दे गणिनं मुदा ॥ ५० ॥ देशानायां गणेशोपि, तत्वत्रयनिरूपणे ।। इति साधुगुणानूचे, गुरुतत्त्वं प्ररूपयन् ॥५१॥ "महाव्रतधास्तीन-तपः शोपि तविग्रहाः ॥ अन्तप्रान्ताशनास्तुल्य-शत्रुमित्रा जितेन्द्रियाः ॥ ५२ ॥ निष्कषाया महात्मानः, साधवो गुरवः स्मृताः ॥ तारयन्ति परं | ये हि, तरन्तः पोतवत्स्वयम् ! ॥ ५३॥ [ युग्मम् ]" तछुत्वा गणिगात्रं च, वीक्ष्यातिमृदुपीवरम् ।। श्रीदो दध्यौ विसंवादि, वचोऽस्य | स्ववपुष्यपि ।। ५४ । अन्तप्रान्ताशनत्वे हि, नेदृक् स्यादङ्गसौष्ठवम् ।। इति वैश्रमणः किश्चि-जहास विकसन्मुखः। ॥ ५५ ॥ ततो ज्ञात्वा तदाकूतं, चतुर्जानी जगौ प्रभुः॥ ध्यानमेव प्रमाण स्यात, तनुत्वं न तनोः पुनः॥५६॥ अस्य संशयपङ्कस्य, क्षालनाय जलो | पमम् ॥ श्रीपुण्डरीकाध्ययनं, शृणु विवेश ! तद्यथा ॥ ५७ ॥ विजये पुष्कलावत्यां, विदेहावनिमण्डने ॥ नगर्यां पुण्डरी| किण्यां, महापद्मनृपोऽभवत् । ५८॥ तस्य पद्मावतीराज्ञी-कुक्षिजौ सुन्दराकृती । पुण्डरीककण्डरीका-भिधौ पुत्रौ बभूवतुः ॥ ५९॥ तस्यां नगर्यामन्येयुः, स्थविराः समवातरन् । उद्याने नलिनवने, त्रिदशा इव नन्दने ॥ ६० ।। तान् प्रणम्य महापद्मः, श्रुत्वा धर्म ४| विरक्तधीः ।। गत्वा पुर्यां पुण्डरीकं, न्यधाद्राज्ये महामहैः ॥६१॥ कण्डरीकश्च संस्थाप्य, यौवराज्येऽग्रहीद्वतम् ।। पुण्डरीकमहाराज कृतदीक्षामहो नृपः ।। ६२ ॥ अधीत्य सर्वपूर्वाणि, कयात्सम्प्राप्तकेवलः ॥ मासिकानशनेनागा-त्स राजर्षिः परं पदम् ।। ६३ ॥ अथा- ॥१२॥ न्येयुः पावयन्तो, धरां चरणरेणुभिः ॥ त एव स्थविरास्तत्र, भूयोऽपि समवासरन् ॥ ६४ ॥ तांश्च श्रुत्वाऽऽगतान हृष्टः, पुण्डरीका ॥१२॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy