________________
उचराध्यबनसूत्रम् ॥१२५॥
देववचः श्रुत्वा-ऽष्टापदं गन्तुमुद्यतः ॥ पप्रच्छ गौतमः सार्व-सार्वभौमं कृताञ्जलिः ॥ ३१ । ततस्तापसबोधाय, तस्य स्थैर्याय च प्रभुः ॥ तत्र गन्तुं तमादिक्ष-दमोधाज्ञा हि पारगाः ॥ ३२ ॥ निधानं सर्वलब्धीनां, ततः श्रीगौतमप्रभुः ।। भक्त्याभिवन्ध तीर्थेशं,
काअध्य प्रतस्थेष्टापदं प्रति ॥ ३३ ॥ इतश्च कोडिन्नदिन-सेवालास्तापसास्त्रयः ।। तापसानां पञ्चशत्या, प्रत्येकं परिवारिताः ॥ ३४ ॥ मुक्तिरष्टापदारोहा-द्विशामीति विभोर्वचः ॥ श्रुत्वा जनाननात्पूर्व, प्रस्थिताः सन्ति तं प्रति ॥ ३५ ॥ [ युग्मम् ] उपवासतपास्तेषु, प्रथमः | सपरिच्छदः ॥ कन्दादिभोजनो भेजे, तस्याद्रेरादिमेखलाम् ।। ३६ ।। षष्ठाकारी द्वितीयस्तु, पक्कपत्रादिमोजनः ।। द्वितीयां मेखलां प्राप, सतंत्रस्तस्य भूभृतः ।। ३७ ॥ तृतीयस्त्वष्टमतपाः, शुष्कशेवालपारणः ॥ तस्याद्रेः सपरीवार-स्तृतीयां प्राप मेखलाम् ॥ ३८ ॥ न तु कोऽपि गिरेस्तस्य, क्लिश्यमानोऽप्यगाच्छिरः । गम्यं गरुत्मतो मेरु-शृङ्गं किं यान्ति केकिनः १ ॥३९॥ अथ ते तापसाः सर्वे, खतेजोविजितारुणम् ॥ आयान्तं गौतमं प्रेक्ष्या-चिन्तयन्निति विस्मिताः !॥४०॥ तपःकृशाङ्गा अपि नो, यत्रारोढुं क्षमा वयम् ॥ गरिष्ठकायस्तत्राय-मारोक्ष्यति कथं यतिः ॥४१॥ उच्चैर्मुखेषु तेष्वेवं, चिन्तयत्स्वेव गौतमः ।। जङ्घाचारणलब्ध्यार्क-रश्मीनालम्ब्य सश्चरन् ॥ ४२ ।। तूर्ण तेषामुपर्यागा-रक्षणाचागाददृश्यताम् ।। जवनैः पवनैः प्रेर्य-माणो मेघ इवोच्चकैः ॥ १३ ॥ [युग्मम् ] तापसास्ते तु तं प्रोच्चैः, प्रशंसन्तो व्यचिन्तयन् ।। अस्य शिष्या भविष्यामो-ऽमुष्मादुत्तरतो गिरेः॥४४॥ गौतमस्तु गतः शैल-मौलौ | भरतकारितम् ॥ हृतावमादं प्रासाद, दर्शनीयं ददर्श तम् ॥ ४५ ॥ मानवर्णान्वितानादि-जिनादीन् स्थापनाजिनान् ॥ ननाम नित्य प्रतिमा-प्रतिमांस्तत्र च प्रभुः ॥ ४६॥ साक्षादिव जिनांस्तांश्च, दर्श दर्श प्रमोदभाक् ॥ सन्तुष्टावातिसन्तुष्ट-चेता इति गणाधिपः १२५॥
शाश्वतप्रतिमातुल्यान् ॥