SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ 4 उपराज्यबनसूत्रम् ॥१२४॥ -94% 4 -4 अमूढलक्ष्यो भगवां-स्ततस्तौ गौतमान्वितौ ।। आदिशत्तां पुरीं गन्तु, तेपि तत्र ययुः क्रमात् ॥ १३ ॥ तत्र काश्चनपाथोजे, निविष्टो नाकिनिर्मिते ॥ श्रीगौतमश्चतुर्ज्ञानी, पारेभे धर्मदेशनाम् ।। १४ । श्रुत्वा गागलिभूपोपि, तमायातं समातुलं । यशोमतीपिठरयुग् | ययौ वन्दितुमुत्सुकः ।। १५ ।। हर्षोत्कर्षोल्लसद्रोम-हर्षो नत्वाथ तान्नृपः ॥ उपविश्य यथास्थान-मश्रौषीद्धर्मदेशनाम् ॥१६॥ | संसारासारतासारां, ताञ्चाकर्ण्य विरक्तधीः ।। गागलिनगरी गत्वा-गजं राज्ये न्यवीविशत् ॥ १७ ॥ पितृभ्यां सहितः प्राज्य-रुत्स| वैश्वाददे व्रतम् ।। गौतमस्वामिपादान्ते, दान्तात्मा मेदिनीपतिः ॥ १८ ॥ ततः सालमहासाल-गागल्यादिमिरन्वितः ॥ गणी गन्तुं जिनाभ्यणे-ऽचलचम्पापुरी प्रति ॥ १९ ॥ तदा सालमहासाला-वित्यचिन्तयतां मुदा ॥ यद्भवात्तारितान्येता-न्येतद्भव्यमभूभृशम् |॥ २०॥ तदा च दध्युरित्यन्त-गल्याद्या अपि त्रयः ॥ अहो ! सालमहासाला-वस्माकमुपकारिणी ॥ २१ ॥ एताभ्यां हि वयं | पूर्व, राज्यश्रीभाजनीकृताः । इदानीं तु महानन्द-प्रापकं प्रापितं व्रतम् ॥ २२॥ इत्यादिध्यानदावाग्नि-ध्वस्तकल्मषभूरुहः ।। मुक्तिमन्दिरनिश्रेणिं, क्षपकश्रेणिमाश्रिताः ॥ २३ ॥ मोहमत्तेभपश्चत्व-पश्चास्या मार्ग एव ते ॥ चश्चत्प्रपञ्च पश्चापि, पञ्चमज्ञानमासदत् ! ॥ २४ ॥ [युग्मम्] जिनाभ्यणं गतास्तेथ, गौतमस्वामिना समम् ॥ प्रदक्षिणीकृत्य जिनं, जग्मुः केवलिपर्षदि ॥२५॥ ततस्तान् गौतमः प्रोचे-ऽनभिज्ञा इव भोः ! कथम् ? ॥ यूयं यात समायात, वन्दवं भुवनप्रभुम् ।। २६ ॥ जिनान्माऽऽशातयेत्युक्तः, श्रीवीरेणाथ गौतमः ॥ तत्क्षणं क्षमयित्वा ता-निति दध्यौ निजे हृदि ॥ २७ ॥ दुर्भगं हरिणाक्षीव, भजतेद्यापि मां न हि ॥ केवल ज्ञानलक्ष्मीस्त-रिंक सेत्स्यामि नवाथवा ? ॥ २८ ॥ इति चिन्तयतः श्रीम-दिन्द्रभूतिगणेशितुः ।। असौ सुराणां संलापः, कर्णजाहभगाहत ॥ २९ ॥ जिननाद्योदितं यो हि, जिनान्नमति भूचरः ।। स्वलब्ध्याष्टापदं गत्वा, स हि तद्भवसिद्धिकः ॥ ३०॥ इति -1 A5 +2 ॥१२४॥ + te
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy