________________
॥ अथ दशमाध्ययनम् ॥
अध्य०१०
चराध्यबनवम् ॥१२३॥
।। अहम् ।। व्याख्यातं नवमाध्ययनं, सम्प्रति दुमपत्रकाख्यं दशममारभ्यते, अस्थचार्य सम्बन्धः, इहानन्तराध्ययने धर्मम्प्रति निष्कम्पत्वमुक्तं, तच्चानुशासनादेव स्यादिति अनुशासनाभिधायकमिदमारभ्यते, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य प्रस्तावनार्थ गौतमं प्रति श्रीमहावीरेणेदमुक्तमिति इहोपयोगिनी गौतमवक्तव्यता तावत्काचिदुच्यते । तथाहि
अत्राभूद्भरतक्षेत्रे, स्खलेक्ष्मीनिर्जितालका ।। समग्रनगरीप्रष्ठा, पृष्ठचम्पाभिधा पुरी ॥१॥ तस्यां सालमहासाल-नामानौ सोदरावभौ ॥ राजराजिगुणौ राज-युवराजौ बभूवतुः ॥२॥ जामियशोमती संज्ञा, पिठरो भगिनीपतिः ॥ गागिलि गिनेयश्चा-मेय| बुद्धिस्तयोरभूत् ।। ३ ॥ तस्याश्च पुर्यामन्येधु-विहरन् जगदीश्वरः ॥ श्रीवीरः समवासापर्षी-व्याम्भोजनभोमणिः ॥ ४॥ ततः
सालमहासालौ, सार्व वन्दितुमुद्यतौ।। महर्या जग्मतुः प्राज्य-प्रमोदभरमेदुरौ ।।५।। जिनं नत्वा च सद्भक्त्या यथास्थानं न्यषीदताम्।। | सर्वज्ञोपि जगौ धर्म, संसाराम्भोधितारकम् ॥ ६॥ तमाकर्ण्य विरक्तात्मा, जिनं नत्वा गृहं गतः ॥ राज्यमेतद्गृहाणेति, सालः सोदरमब्रवीत् ॥॥सोवादीन्मम राज्येन, कृतं दुर्गतिदायिना। प्रजिष्याम्यहमपि, भवोद्विग्नस्त्वया समम् ।।८।। जामेयं गागिलि राज्ये, स्थापयित्वा महोत्सवैः ।। ततः सालमहासालौ, प्राब्राजिष्टां जिनान्तिके ॥९॥ विहरन्तौ च तो नित्यं, श्रीवीरस्वामिना समम् ॥ एकादशाङ्गीमन्यूनां, पेठतुः शुद्धधीनिधी ॥१०॥ अन्यदा प्रस्थितं चम्पां, प्रति राजगृहात पुरात् ।। प्रभुं सालमहासालौ प्रणिपत्येत्यवोचताम् ॥ ११ ॥ नगर्यां पृष्टचम्पायां, प्रतिबोधयितुं निजान् । स्वामिन्नावां यियासावो, यद्यनुज्ञां प्रयच्छसि ।। १२ ॥
॥१२३॥
॥१२३॥