SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ चराभ्यबन सत्रम् ॥११९॥ % A- | सञ्जल्प-नुत्पपात मुनिस्ततः ॥ १४७॥ तदा कनकमालापि, श्रुत्वा वृत्तान्तमात्मनः ॥ प्राप्ता जातिस्मृति सद्यो, ददर्श प्राग्भवं निजम् ॥ १४८ ॥ मत्पितायमिति प्रेम, सुरे सा तत्र बिभ्रती ।। तात ! को मे वरो भावी-त्यप्राशीतं दिवौकसम् ॥ १४९ ॥ सुरोथावधिना ज्ञात्वा, प्रोचे प्राच्यस्तव प्रियः ॥ राजा विजितशत्रुः स, देवीभूय च्युतो दिवः ॥ १५० ॥ दृढसिंहमहीनेतुः, सुतः सिंह स्थाह्वयः॥ जातोस्ति मेदिनीभर्ता, भर्चा भावी स ते सुते ! ॥ १५१॥ [ युग्मम् ) तत्सङ्गो मे कथमिह, भावीत्युक्तस्तया पुनः॥ सुरोवादीदिहागन्ता, वाजिनापहृतो हि सः ।। १५२ ।। तदुद्वेगं विहाय त्व-मिह तिष्ठ यथासुखम् ॥ अहं त्वदादेशकारी, स्थास्यामि तव सन्निधौ ॥१५३ ॥ इत्युक्त्वा सपरीवारः, प्रासादेऽस्थादिहामरः ॥ तस्थौ कनकमालापि, तदभ्यणे सुरीवृता ॥ १५४ ॥ स्वामिन् ! कनकमालां तां, मामवेहि गुणोदधे ! ॥ स देवस्तु ययौ मेरुं, चैत्यनत्यै गतेऽहनि ॥ १५५ । ततस्त्वमपराक्रे म-पुण्याकृष्ट इहा. गमः ॥ मन्मनोनयनाम्भोज-विभासनविभाकरः ॥ १५६ ॥ मया तूत्कण्ठया ताता-गमं यावत्प्रतीक्षितुम् ॥ अशक्तया त्वया साकं, स्वयमात्मा विवाहितः ॥ १५७ ॥ एष स्वामिन् स्ववृत्तान्तो, मया तुभ्यं निवेदितः ॥ इति तद्वाक्यमाकर्ण्य, जाति सस्मार पार्थिवः | ॥ १५८ ॥ अत्रान्तरे सुरवधू-युतस्तत्रागतः सुरः। प्रणेमे भूभुजा सोपि, तमुचैरभ्यन्दयत् ॥ १५९ ॥ ततो विवाहवृत्तान्ते, प्रोक्ते कनकमालया ।। अत्यथं मुदितो देव-श्चिरं भूपमवार्तयत् ।। १६० ॥ दिव्यं भोज्यं च मध्याहे, सभार्यो बुभुजे नृपः । इत्थं स्थिता ४ मासमेकं , सोन्यदेत्यवदत्प्रियाम् ॥ १६१ ॥ अरक्षकं भोज्यमिव, द्विका राज्यं मम द्विषः । उपद्रोष्यन्ति तद्न्तु-मनुमन्यस्व मां प्रिये ! ॥ १६२ ॥ सावदत्त्वत्पुरं दूरे, पादचारेण तत्कथम् ॥ इतो यास्यसि तत्र त्वं, ततो वात्रागमिष्यसि ॥ १६३ ॥ तत्मज्ञप्ती महाविद्या, गृहाण त्वं मदन्तिकात् ।। ततो राजा गृहीत्वा तां, विधिपूर्वमसाधयत् ॥ १६४ ॥ अगाच्च व्योममार्गेण, प्रियां पृष्ट्वा निज
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy