________________
उचसध्य यनसूत्रम्
॥११८॥
॥११८॥
गवेषयन् || योद्धुमाह्वास्त कनक - तेजास्तं खेचरं क्रुधा ।। १२९ || विद्याबलोर्जितौ युद्धं कुर्वन्तौ तुल्यविक्रमौ ॥ तावन्योन्यग्रहारेण, सद्योभूतां यमातिथी ॥ १३० ॥ स्वं तद्विनाशकीनाशं, निन्दन्ती वीक्ष्य तौ मृतौ ॥ चिरं रुरोद कनक-माला भ्रातृशुचाकुला ॥१३१ ॥ तदा चात्रागतो वान-मन्तराख्यः सुरोत्तमः ॥ वत्से ! त्वं मम पुत्रीति, प्रेम्णा यावदुवाच ताम् ।। १३२ ।। सुतामन्वेषयंस्ताव - दृढशक्तिरिहाययौ । ततः कनकमालां द्राकू, शवरूपां सुरोकरोत् ॥ १३३ ॥ अथ तान् पतितान् पृथ्व्यां, स्वपुत्री पुत्रवासवान् ॥ विपनान् वीक्ष्य संविप्रो, डढशक्तिरचिन्तयत् ।। १३४ ॥ वासवेन सुतो नूनं, जम्भे तेन च वासवः ॥ सुता तु वासवेनैव, मार्यमाणेन मारिता ||| १३५|| तत्संसारे दुःखाढये, कृती को नाम राज्यते १ ॥ ध्यात्वेति प्राव्रजद्विद्या - घरराजस्तदैव सः ।। १३६ ।। मायां हृत्वा ततो देवः समं कनकमालया ॥ ननाम श्रमणं सोऽपि किमेतदिति पृष्टवान् १ ॥ १३७॥ अथोक्ते भ्रातृपञ्चत्वो-दन्ते कनकमालया ॥ मया शबत्रयं दृष्टं, कथमित्यवदन्मुनिः १ ॥ १३८ ॥ सुरोथाचीकथन्माया, मयासौ तव दर्शिता ! ॥ मुनिः स्माह कुतो देतो-मया मे दर्शिता त्वया ? ।। १३९ ॥ देवोवादीचत्र हेतुं दृढशक्तिमुने ! शृणु ॥ क्षितिप्रतिष्ठितपुरे, जज्ञे विजितशत्रुराट् ॥ १४० ॥ स च चित्रकृतः पुत्रीं नाम्ना कनकमञ्जरीम् ॥ उपयेमेन्यदा सा च परमश्राविका भवत् ॥ १४१ ॥ तया पश्चनमस्कारा - दिना निर्यामितो मृतः ॥ तत्पिता चित्रकद्वान - मन्तराख्यः सुरोभवत् ॥ १४२ ॥ सोहमत्राधुनायातो - ऽपश्यं शोकाकुलामिमाम् || उत्पन्नभूरिप्रेमा चो-पयोगमवरदाम् ॥ १४३ ॥ असौ मे प्राग्भवसुते -त्यज्ञासिषमहं ततः । त्वाञ्च तत्क्षणमायान्तं, निरीक्ष्यैवमचिन्तयम् ॥ १४४ ॥ पित्रा सहासौ मन्त्रीति, भावी मे विरहोनया ॥ ध्यात्वेत्यदर्शयमिमां, मायया ते शवोपमाम् ॥ १४५॥ त्वां च प्रव्रजितं प्रेक्ष्य, माया द्राक् संहृता मया । तन्मे दुश्श्रेष्टितमिदं, सोढव्यं सुमुने ! त्वया ॥ १४६ ॥ धर्महेतुतया मे त्व-प्रुपकर्तासि तत्कुतः १ ॥ इत्थमात्थे
अध्य• ९
॥११८॥