________________
अम९
उत्तराज्यबनरत्रम् |
+
+S
| तन्मानभूघनः ।.७६।। अथाख्याहि कथामन्या-मेवं मदनयोदिता ॥ राज्ञी जगौ वने क्कापि, रक्ताशोकदुमोऽभवत् ॥ ७७ ॥ शाखा
शताकुलस्यापि, तस्य छाया तु नाभवत् ॥ जगाद मदना तस्य, छाया न स्यात्तरोः कथम् ॥ ७८ ॥ साख्यत्तन्द्राकुलास्मीति, कल्ये वक्ष्याम्यदस्तव ।। ततस्तस्यै ददौ भूप-स्तृतीयेप्यहि वारकम् ॥ ७९ ॥ प्राग्वन्मदनया पृष्टा, साथ प्रोचे महाशया ॥ तरोस्तस्याभव |च्छाया-ऽधस्तादुर्द्धन्तु नाऽभवत् ।। ८० ॥ आख्यानमन्यदाख्याही-त्युक्ता मदनया पुनः।। सावादीत् काप्यभूद्रामे, कोपि दासेरपा लकः ॥ ८१ ॥ तस्य चैको महाकायो, रवणोन्तर्वणं चरन् ॥ एकं बबूलमद्राक्षीत् , फलपुष्पभराकुलम् ॥ ८२ ॥ ततः स तं दुमममि-ग्रीवां प्रासारयन्मुहुः ॥ पत्रमात्रमपि प्राप, न तु तस्य महातरोः ।। ८३ ॥ जातकोपस्ततस्तस्य, द्रुमस्योचं क्रमेलकः ॥ विष्मृत्रे व्यसृजत्को बा, कदर्येभ्यो न कुप्यति ? ॥८४॥ मदनाख्यन्मुखेनापि, यं न प्राप महाद्रुमम् ।। तस्योपरि शकुन्मत्रे, स दासेरो व्यधात्कथम् ॥ ८५॥ राज्ञी जगाविदं कल्ये, वक्ष्ये निद्रामि साम्प्रतम् ॥ तुर्येप्यहि ततो राजा, तस्य वारकमार्पयत् ।।८६॥ ततो दास्या | तया पृष्टा, प्रोचे कनकमञ्जरी ॥ बन्बूलः स हि कूपेभू-तत्तं प्सातुं स नाशकत् ॥८॥ प्राग्वत्कथान्तरं पृष्टा, तया सा चैवमब्रवीत् ॥ भूपेन कापि केनापि, गृहीतौ द्वौ मलिम्लुचौ ॥ ८८ ॥ मञ्जूषानिहितौ तौ च, नृपो नद्यामवाहयत् ।। दयार्द्रचेता न पुन-रियामास तौ स्वयम् ॥ ८९॥ यान्ती नदीजले वीक्ष्य, तां पेटा केप्यकर्षयन् ।। तां समुद्घाटय ते चैव-मपृच्छंस्तौ विनिर्गतौ ॥९॥ युवयोः क्षिप्तयोरत्र, जज्ञिरे कति वासराः ॥ अद्य तुर्य दिनमिति, तयोरेकोब्रवीत्तदा ॥ ९१ ॥ कथं तुर्यमहर्जात-मिति पृष्टा भुजिप्यया ॥ देव्यूचे श्व इदं वक्ष्ये, निद्राकालो छुपस्थितः ॥९२॥ पञ्चमेपि दिने राज्ञा, कौतुकाहत्तवारका । तथैव दास्या पृष्टा चे-त्यूचे कनकमञ्जरी ॥ ९३ ॥ तृतीयज्वरवानासी-दित्यज्ञासीत्स तं दिनम् ॥ इत्युक्त्वा सा कथामन्यां, दास्या पृष्टैवमब्रवीत् ॥९४॥ जज्ञिरे ||
+
+
१
|
-