SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ उचराज्यबनवम् ॥११॥ % वाजिविजित्वरौ ॥३॥ तयोर्मध्ये बभूवैक-स्तुरङ्गो वक्रशिक्षितः॥ तमारोहन्नृपो दैवा-द्वितीयं तु तदङ्गजः॥४॥ ततः सैन्यान्वितो | राजा, निर्गत्य नगराबहिः ।। वाहकेलीगतो वाह-वाहनार्थ प्रचक्रमे ॥५॥ प्रकृष्टां तद्गतिं द्रष्टुं, कशया प्राहरच्च तम् ॥ ततः स तुरगः सिन्धु-पूरादप्यचलद्रुतम् ॥६॥ तं रक्षितुं नृपोवल्गा-माचकर्ष यथा यथा । तथा तथा हयो जज्ञे, जवनः पवनादपि ॥७॥ गच्छ ने योजनानि, द्वादशातिगतो हयः॥ तमरण्येऽनयनद्याः, पूरस्तरुमिवोदधौ ।।८॥ आकृष्याकृष्य निर्विण्णो, वल्गां तत्रामुचन्नृपः॥ #तुरङ्गमोपि तत्रैव, तस्थौ तत्क्षणमात्मना ॥९॥ ततस्तं वाजिनं ज्ञात्वा, भूशको वक्रशिक्षितम् ॥ बद्ध्वा कापि दुमे भ्राम्यन् , प्राण| वृत्तिं व्यधात्फलैः॥१०॥रात्रिवासाय चारूढो, गिरिमेकं महीपतिः॥ ददर्शकं दर्शनीयं, पासादं सप्तभूमिकम् ॥११ ॥ तस्य मध्ये | प्रविष्टश्चा-द्राक्षीदेकां मृगेक्षणाम् ।। रूपलावण्यतारुण्य-तिरस्कृतरतिश्रियम् ॥१२॥ ससम्भ्रमं समुत्थाय, प्रभोदभरमेदुरा ॥ ददौ साप्या | सनं तस्मै, सोऽपि तस्मिन्नुपाविशत् ।।१३।। मिथस्तावन्वरज्येतां, क्षणाद्द्तीकृतेक्षणौ ॥ अन्योन्यदर्शनोद्भुत-स्नेहावेशहतत्रपौ ॥१४॥ कासि त्वं ? सुभगे ! किञ्च, तिष्ठस्येकाकीनी बने ? ॥ अथेति भूभुजा पृष्टा, सोत्कण्ठं सैवमब्रवीत् ।। १५ ।। भवनेस्मिन्वेदिकायां, से पूर्वमुबह मां प्रभो! ॥ पश्चात्स्वस्थमनाः सर्वे, वक्ष्ये वृत्तान्तमात्मनः ॥ १६ ॥ तत्कर्णामृतमाकर्ण्य, वाक्यं तस्या धराधिपः । सरसं भोजनं प्राप्य, बुभुक्षुरिव पिप्रिये ॥ १७ ॥ भवने तत्र सानन्दं प्रविष्टश्च जिनालयम् । सोऽपश्यत्तस्य तु पुरो, वेदिकां शुभवेदिकाम् | ॥ १८॥ ततो नत्वा जिनं सन्ध्या-समये वेदिकां गतः । गान्धर्वेण विवाहेनो-:शस्तामुदुवाह सः॥ १९॥ ततो वासगृहे गत्वा, विलासैविविधैः सुखम् ॥ अतिवाह्य निशां प्रात-स्तो जिनेन्द्रं प्रणेमतुः ॥ २० ॥ राज्ञः सिंहासनस्थस्यो-पविष्टार्धासने मुदा ॥ साथ राज्ञी जगौ राजन् ।, वार्ता मे श्रूयतामिति ॥ २१ ॥ C - A CA
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy