________________
उपराज्य
यनसूत्रम् ॥११०॥
॥११०॥
| लकिरीटीति सूत्रार्थः ॥ ६० ॥ शक्रेणैवं स्तूयमानः स मुनिः किमुत्कर्ष व्यधादुत नेत्याह
मूलम् - नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वइदेहीं, सामण्णे पज्जुवडिओ ॥ ६१॥
व्याख्या–नमिर्नमयति खतत्त्वभावनया प्रहं करोत्यात्मानं स्वं नतुत्सेकं नयति । उक्तश्च – “संतगुणकित्तणेणवि पुरिसा लज्जति जे महासत्ता || इअरा पुण अलिअपसंसणेवि हिअए न मायंति ॥ १ ॥” किम्भूतो नमिः ? साक्षात्प्रत्यक्षीभूय शक्रेण चोदितः प्रेरितः त्यक्त्वा गेहं 'वइदेहित्ति' सूत्रत्वाद्विदेही विदेहदेशाधीशः श्रामण्ये पर्युपस्थितः उद्यतो न तु तत्प्रेरणयापि धर्माद्विन्युतोऽभूदिति भाव इति सूत्रार्थः ॥ ६१ ॥ अथामुष्य मुनिम्मुख्यस्य दृष्टान्तेनोपदेशमाह
मूलम् — एवं करिंति संबुद्धा, पंडिआ पविअक्खणा ।
विणिअहंति भोगेसु, जहा से नमी रायरिसित्ति बेमि ॥ ६२ ॥
व्याख्या—एवमिति यथामुना नमिनाम्ना मुनिना निश्चलत्वं कृतं तथाऽन्येपि कुर्वन्ति, कीदृशाः १ संबुद्धा अवगततत्त्वाः, पण्डिता निश्चितशास्त्रार्थाः, प्रविचक्षणा अभ्यासातिशयाक्रियाम्प्रति प्रवीणाः, तादृशाश्च सन्तो विनिवर्त्तन्ते उपरमन्ते 'भोगेसुत्ति' भोगेभ्यो यथा |स नमी राजर्षिस्तेभ्यो निवृत्त इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ ६२ ॥ इति समाप्तोऽध्ययनसूत्रार्थः, अथ प्रक्रान्तशेषं प्रस्तूयते तच्चेदंअथ नग्गतिसंज्ञस्य, सम्बुद्धस्यानपादपात् ॥ तुर्यप्रत्येकबुद्धस्य कथां वक्ष्यामि तद्यथा ॥ १ ॥ अत्रैव भरतक्षेत्रे, देशे गान्धारसंज्ञके ॥ श्री पाण्डुवर्धनपुरे, राजा सिंहरथोऽभवत् ॥ २ ॥ अन्यदा तस्य भूभर्त्तु- र्द्वाविश्वावुत्तरापथात् ।। उपायने समायातौ श
अध्य० ९
॥११०॥