SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ उचराध्य यनसूत्रम् ॥१०६॥ ॥१०६॥ मूलम - एयमट्ठ निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ४७ ॥ मूलम् -- सुवण्णरुपस्स उ पव्वया भवे, सिआ ह केलाससमा असंखया । नरस लुद्धस्स न हि किंचि, इच्छा हु आगास समा अतिआ ॥ ४८ ॥ हु व्याख्या - सुवर्ण च रूप्यं च सुवर्णरूप्यं तस्य तुः पूत, पर्वताः पर्वतप्रमाणा राशयः 'भवेति' भवेयुः स्यात्कदाचित्, हुरखधारणे मिन्नक्रमश्च ततः कैलाससमा एव, न तु लघुगिरिप्रमाणाः, कैलासश्चात्र मेरुरिति वृद्धाः, तेप्यसंख्यकाः संख्यारहिता न तु द्वित्राः, नरस्य लुब्धस्य न तैः तादृशैरपि स्वर्णरूप्यपर्वतैः किञ्चिदपि खल्पमपि परितोषकारणं स्यादिति गम्यम् । कुत इत्याह- इच्छा | अभिलाषो हुरिति यस्मात् आकाशेन समा आकाशसमा अनन्तिका अन्तरहिता । उक्तञ्च - " न सहस्राद्भवेत् तुष्टि-र्न लक्षान्न च कोटितः ॥ न राज्यान्नैव देवत्वा - नैन्द्रत्वादपि देहिनाम् ॥ १ ॥” इति ॥ ४८ ॥ तथा मूलम् - पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह । पडिपुण्णं नालमेगस्स, इइ विज्जा तवं चरे ॥४९॥ व्याख्या-पृथ्वी भूमिः, शालयो लोहितशाल्यादयः, यवाः प्रतीताः चः शेषधान्यसमुच्चयार्थः, एवोऽवधारणे भिन्नक्रमोऽग्रे योक्ष्यते, हिरण्यं सुवर्ण, रूप्याद्युपलक्षणमेतत्, पशुभिर्गवादिभिः सह प्रतिपूर्ण समस्तं नैत्र अलं समर्थं प्रक्रमादिच्छापूर्तये एकस्य जन्तोरिति | शेषः । इत्येतत्पूर्वोक्तं ' विज्जत्ति' विदित्वा तपो द्वादशविधं चरेत्तत एव निःस्पृहतयेच्छापूर्तिसम्भवादनेन च सन्तोष एवाकांक्षापोहे | क्षमो न तु स्वर्णादीत्युक्तं । ततः सन्तुष्टस्य मे स्वर्णादौ साकांक्षत्वमेव नास्तीति तद्वर्धनोद्यमो दुरापास्त एवेति सूत्रद्वयार्थः ॥ ४९ ॥ अध्य० ९ ॥१०६॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy