________________
अध्य०१
यनसूत्रम् ॥१०२॥
STRAMSHAN
कृत्यर्थः, ततो गच्छ क्षत्रिय!अनेन च यः समर्थो राजा सोऽनमन्नपान नमयति, समर्थपार्थिवश्च त्वमिति सूचितमिति स्त्रार्थः ॥३२॥ * मूलम्-एअमहं निसामित्ता, हेउकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३३॥ मूलम्-जो सहस्सं सहस्साणं, संगामे दुजए जिणे। एगं जिणिज अप्पाणं, एस से परमो जओ ॥३४॥
व्याख्या-यः सहस्रं सहस्राणां दशलक्षात्मकं प्रक्रमात् सुभटसम्बन्धि सङ्ग्रामे दुर्जये जयेदमिभवेत्, स चेदेकं जयेदात्मानमनाचारप्रवृत्तमिति गम्यते । एपोनन्तरोक्तः ‘से इति' तस्य जेतुः सुभटदशलक्षजयात् परमः प्रकृष्टो जयः, अनेन चात्मन एवातिदुर्जेय| त्वमुक्तम् ॥ ३४ ॥ ततश्च| मूलम्-अप्पाणमेव जुज्झा हि, किं ते जुझेण बज्झओ। अप्पाणमेव अप्पाणं, जइत्ता सुहमेहए ॥३५॥
व्याख्या-'अप्पाणमेवत्ति' द्वितीयायास्तृतीयार्थत्वादात्मनैव सह युध्यस्व, किं? न किश्चिदित्यर्थः, ते तव युद्धेन बाह्यत इति बाह्यपार्थिवानाश्रित्य, एवञ्च 'अप्पाणमेवत्ति' आत्मनैव आत्मानं 'जइत्तत्ति' जित्वा सुखं ऐकान्तिकं मुक्तिसुखरूपमेधते प्रामोति ॥ ३५॥ कथमात्मन्येव जिते सुखावाप्तिरित्याहमूलम्-पंचिदिआणि कोहं, माणं मायं तहेव लोभं च। दजयं चेव अप्पाणं, सव्वमप्पे जिए जिअं ॥३६॥
व्याख्या-पञ्चेन्द्रियाणि श्रोत्रादीनि क्रोधो मानो माया तथैव लोभश्च 'दुज्जयं चेवत्ति' दुर्जयं इति विशेषणं सर्वत्र सम्बध्यते. चः समुच्चये, एवः पूतों, अतति गच्छति अनेकान्यध्यवसायान्तराणीति आत्मा मनः, नपुंसकनिर्देशस्तु सर्वत्र सूत्रत्वात्, सर्वमेतदि
॥१०२॥
॥१२॥