SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ तांश्च, ग्रन्थिमेदा ये घुर्घरककर्तिकादिना ग्रन्थि भिन्दन्ति तांश्च, तथा तस्करान् सर्वदा चौर्यकारिणो निवार्येति शेषः। नगरस्य क्षेमं कृत्वा ततो गच्छ क्षत्रिय ! अनेन च यो न्यायी नृपः स चौरादीनिगृह्णाति, न्यायी नृपश्च त्वमिति सूचितमिति सूत्रार्थः ॥ २८॥ ॥१.१॥ ॐ मूलम्-एअमहं निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ २९ ॥ मूल || मूलम्-असई तु मणुस्सेहि, मिच्छादंडो पजुजतेए । अकारिणोत्थ वझंति, मुच्चइ कारगो जणो ॥३०॥ __व्याख्या-असकृदनेकधा तुरेवकारार्थे, ततोऽसकृदेव मनुष्यनरैमिथ्या व्यलीकोऽनपराधिष्वपि अज्ञानाभिनिवेशादिभिर्दण्डो देशत्यागविग्रहनिग्रहादिः प्रयुज्यते व्यापार्यते, कथमित्याह-अकारिण आमोषणादेरविधायिनोऽत्यस्मिन् लोके बध्यन्ते निगडादिभिः, मुच्यते कारको विधायकः प्रक्रमादामोषणादेरेव जनो लोकः । अनेन च यदुक्तं प्रागामोषकादीनिवार्य नगरस्य क्षेमं कृत्वा गच्छेति ८|| तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणमप्यशक्यमुक्तमिति सूत्रार्थः ॥ ३०॥ मूलम्-एअमटुं निसामित्ता. हेऊकारणचोडओ। तओ नमि रायरिसिं. देविंदो इणमब्बवी ॥ ३१ ॥ व्याख्या-प्राग्वन्नवरमियद्भिः प्रश्नः वजनान्तःपुरपुरप्रासादनृपधर्मविषयः किमस्य रागोस्ति नवेति परीक्ष्य सम्प्रति द्वेषाभावII परीक्षायै विजिगीषुतामूलत्वाद्वेषस्य तामेव परीक्षितुमनाः शक्र इदमवदत् ॥ ३१॥ १०१॥ मूलम्-जे केइ पत्थिवा तुब्भ, न नमंति नराहिवा। वसे ते ठावडत्ताणं. तओ गच्छसि खत्तिआ! ॥३२॥ व्याख्या-ये केचित् पार्थिवा नृपास्तुभ्यं न नमन्ति हे नराधिप ! हे राजन् ! वशे आत्मायत्तौ तान् नृपान् स्थापयित्वा वशी SHERE ACACARA 44545433 ॥१०१०
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy