________________
उचराध्य
अध्यक
यनात्रम्
॥१०॥
मूलम्-पासाए कारइत्ता णं, वद्धमाणगिहाणि अ । वालग्गपोइआओअ, तओ गच्छसि खत्तिआ! ॥२४॥ ___ व्याख्या-प्रासादान कारयित्वा वर्धमानगृहाणि चानेकधा वास्तुशास्त्रोक्तानि 'बालग्गपोईआओत्ति' देशीभाषया वलभीश्च कार• यित्वा, अशेषरचनाविशेषोपलक्षणञ्चतत्. ततो गच्छ क्षत्रिय ! । अनेन यः प्रेक्षावान् स सति सामर्थ्य गृहादि कारयति, प्रेक्षावांश्च भवानिति सूचितमिति सूत्रार्थः ॥ २४ ॥ मूलम्--एयमहं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसा, देविंदं इणमब्बवी ॥ २५ ॥ मूलम्-संसयं खलु सो कुणइ, जो मग्गे कुणइ घरं । जत्थेव गंतुमिच्छिज्जा, तत्थ कुग्विज सासयं ॥२६॥
व्याख्या संशयं सन्देहं खलु निश्चये स कुरुते यथा कदाचिन्मे गमनं न भवेदपीति यो मार्ग कुरुते गृहं, गमननिश्चये हि तत्करणायोगात् ननु गमननिश्चये कुतो मार्गे गृहं न क्रियते ? इत्याह-यत्रैव वाञ्छितप्रदेशे गन्तुमिच्छेत् 'तत्थेति' सावधारणत्वा| द्वाक्यस्य तत्रैव कुर्वीत स्वस्यात्मन आश्रयः स्वाश्रयस्तं, ततोऽयमर्थः-इदं तावदिहावस्थानं मार्गावस्थानप्रायं तदिह गृहादि न क्रियते, यत्तु जिगमिषितमस्माभिर्मुक्तिपदं तदाश्रय विधाने च प्रवृत्ता एव वयमिति सिद्धसाधनमेतदपीति सूत्रार्थः ॥ २६ ॥ मूलम्-एयमÉ निसामित्ता, हेऊकारणचोइओ। तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥ २७ ॥ मूलम्-आमोसे लोमहारे अ, गठिभेए अ तकरे। नगरस्स खेमं काऊणं, तओ गच्छसि खत्तिआ ॥२८॥
व्याख्या--आसमन्तात् मुष्णन्तीत्यामोषाचौरास्तान् लोमहारा ये निर्दयतया स्वविघातशङ्कया च जन्तून हत्वैव सर्वस्वं हरन्ति
॥१०॥