________________
-
उचराध्य पनसूत्रम् ॥२८॥
--
मूलम्-बहु खुं मुणिणो भई, अणगारस्स भिक्खुणो । सव्वओ विप्पमुक्कस्स, एगंतमणुपस्सओ ॥ १६ ॥
व्याख्या-बहु भूरि खु निश्चये मुनेर्भद्रं सुख अनगारस्य भिक्षोरपि सत इति शेषः। कीदृशस्य मुनेरित्याह-सर्वतो बाह्याभ्यन्तर- अध्य०९ परिग्रहादिप्रमुक्तस्य । एक एवाहमित्यन्तो निश्चय एकान्तस्तं अनुपश्यतः पर्यालोचयत इति सूत्रार्थः ।। १६ ॥ | मूलम्-एयमहं निसामित्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ १७ ॥
मूलम्-पागारं कारइत्ता णं, गोपुरहालगाणि अ । ओसलगसयग्घीओ. तओ गच्छसि खत्तिआ ॥१८॥ ___व्याख्या--प्राकार वर्ष कारयित्वा गोपुराट्टालकानि च। तत्र गोपुराणि प्रतोलीद्वाराणि, गोपुरग्रहणमर्गलाकपाटोपलक्षणं, अट्टाल| कानि च वप्रकोष्ठकोपरिवर्तीनि रणकरणस्थानानि । 'ओमूलगत्ति' खातिकाः, 'सयग्धीओत्ति' शतघ्न्यो यन्त्ररूपाः, तत एवं सर्व निरा-४ कुलीकृत्य 'गच्छसित्ति' विभक्तिव्यत्ययाद्च्छ हे क्षत्रिय ।। हेतूपलक्षणञ्चेदं, यो यः क्षत्रियः स्यात् स स पुररक्षां कुर्वीत, यथा भर| तादिः, क्षत्रियश्च भवानिति सूत्रार्थः॥१८॥ मूलम्-एअमदं निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ १९ ॥ मूलम्--सद्धं च नगरं किच्चा, तव संवरमग्गलं खंतीनिऊणपागारं, तिगुत्तं दुप्पधंसगं ॥ २० ॥
व्याख्या-श्रद्धां तत्त्वरुचिरूपां सर्वगुणाधारतया नगरं पुरं कृत्वा विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि कृत्वेत्युपलक्ष्यते । तपोऽनशनादि बाह्यमेवेह ग्राह्यं, तत्प्रधानः संवरस्तपःसंवरस्तं, अर्गलामित्युपलक्षणत्वादर्गलाकपाटं कृत्वा शान्ति क्षमा, निपुणं |
॥९८॥