________________
उचराध्यबनसत्रम् ॥९॥
ANDROCCAL-
व्याख्या-एष प्रत्यक्षोऽग्निश्च वायुश्च एतत्प्रत्यक्षं दह्यते मन्दिरं गृहं तवेति शेषः, अग्निवायू च तदा शक्र एचादर्शयदिति वृद्धवाः, हे भगवन् ! 'अंतेउरतेणंति' अन्तःपुराभिमुख 'कीसत्ति' कस्मात् 'ण' वाक्यालङ्कारे नावप्रेक्षसे नावलोकसे? यद्यदात्मीयं तत्तत्रातव्यं, आत्मीयञ्चदं तवान्तः पुरादीति सूत्रार्थः ॥ १२ ॥ | मूलम्-एयमदं निसामित्ता, हेउकारणचोइओ। तओ नर्मि रायरिसी, देविंदं इणमब्बवी ॥ १३॥ व्याख्या-स्पष्टं नवरं हेतुकारणचर्चा इहोत्तरत्र च बृहट्टीकातोवसेयेति ।। १३ ॥
मूलम्--सुहं वसामो जीवामो, जेसि मो नत्थि किंचणं।
मिहिलाए डज्झमाणीए, न मे डज्झइ किंचणं ॥ १४ ॥ च्याख्या-सुखं यथा स्यादेवं वसामस्तिष्ठामः जीवामः प्राणान् धारयामः येषां 'मोत्ति' अस्माकं नास्ति किञ्चन वस्तुजातं यतः-"एकोहं न च मे कश्चित्, स्वः परो वापि विद्यते । यदेको जायते जन्तु-म्रियते चैक एव हि ॥१॥ इति" न किञ्चिदन्तःपुरादि मदीयमस्ति यत्रातव्यं स्यात्, अत एव मिथिलायां दह्यमानायां न मे दह्यते किञ्चन खल्पमपीति सूत्रार्थः॥१४॥ इदमेव भावयितुमाइमूलम्-चत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुणो। पिअंन विजए किंचि, अप्पिअंपि न विजए ॥१५॥
व्याख्या-त्यक्तपुत्रकलत्रस्य निर्व्यापारस्य मुक्तकृष्यादिक्रियस्य भिक्षोः प्रियमिष्टं न विद्यते किश्चिदल्पमपि, अप्रियमपि अनिष्टमपि न विद्यते । एतेन यदुक्तं नास्ति मे किश्चनेति तत्समर्थितमिति सूत्रार्थः ॥ १५ ॥ एवमपि मुखेन वसनं जीवन कया स्वादिल्पाह
॥२७॥