________________
उपराज्यबनसूत्रम् ॥९६॥
| व्याख्या-वातेन वायुना हियमाणे इतस्ततः क्षिप्यमाणे 'चेइअंमित्ति' चितिरिहेष्टकादिचयस्तत्र साधुर्योग्यो वा चित्यः स ६ एव चैत्यस्तस्मिन् कोऽर्थोऽधोबद्धपीठिके उपरि चोच्छ्रितपताके मनोरमे मनोहरे तस्मिन् वृक्ष इति शेषः । दुःखं जातं येषां ते दु:खिताः, | अशरणास्त्राणरहिता अत एवार्ताः पीडिता एते प्रत्यक्षाः क्रन्दन्ति आक्रन्दान् कुर्वन्ति भो! इत्यामंत्रणे खगाः पक्षिणः । इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्त इति यत्स्वजनाक्रन्दनमुक्तं तत्खगाक्रन्दनप्रायमात्मा च वृक्षकल्पस्तत्त्वतो हि खल्पकालमेव सहावस्थानेन उत्तरकालं च खगतिगामितया दुमाश्रितखगोपमा एवामी वजनादयः । उक्तश्च-“यद्वद्रुमे महति पक्षिगणा विचित्राः, कृत्वाश्रयं हि निशि यान्ति पुनः प्रभाते । तद्वजगत्यसकृदेव कुटुम्बजीवाः, सर्वे समेत्य पुनरेव दिशो भजन्ते ॥१॥ इति" ततश्चा| क्रन्दादिदारुणशब्दानां मनिष्क्रमणहेतुकत्वमसिद्धं, स्वस्वकार्य हेतुकत्वात्तेषां । आह च-"आत्मार्थ सीदमानं स्वजनपरिजनो रौति हाहारवार्तों, भार्या चात्मीयभोग गृहविभवसुखं स्वं वयस्याश्च कार्यम् । क्रन्दत्यन्योन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वा यस्माच्च किश्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ॥१॥” तथा च सति भवदुक्ते हेतुकारणे असिद्ध एवेति सूत्रार्थः ॥ १० ॥ मूलम्--एयम निसामित्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ ११ ॥
व्याख्या-एनमर्थं निशम्य हेतुकारणयोः पूर्वोक्तयोश्चोदितोऽसिद्धे भवदुक्त हेतुकारणे इत्युपपत्त्या प्रेरितो हेतुकारणचोदितः, | ततो नर्मि राजर्षि देवेन्द्र इदमब्रवीदिति सूत्रार्थः ॥ ११॥ मूलम्-एस अग्गी अ वाऊ अ, एअंडज्झइ मंदिरं । भयवं अंतेउरतेणं, कीस णं नाव पिक्खह ॥१२॥
॥९॥
॥९॥