________________
बनसूत्रम् ॥९ ॥
व्याख्या-एतमनन्तरोक्तमर्थ निशम्य, हेतुः पञ्चावयववाक्यरूपः, कारणश्चान्यथानुपपत्तिमात्रं, ताभ्यां चोदितः प्रेरितो हेतुकारणचोदितः, इह च हेतुकारणे कोलाहलकसङ्कलाः शब्दाः श्रूयन्ते इत्यनेनैव सूचिते, तथा हि-अयुक्तमिदं तब निष्क्रमणमिति
प्रतिज्ञा १। आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः । यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तद्धर्मार्थिनामयुक्तं, यथा प्राणातिपातादिरिति ६ दृष्टान्तः ३ । आक्रन्दादिदारुणशब्दहेतुश्चेदं तव निष्क्रमणमित्युपनयः ४ । तस्मादयुक्तमेवेदं तव निष्क्रमणमिति निगमनमिति ५।
पश्चावयवमनुमानवाक्यमिह हेतुः। आक्रन्दादिदारुणशब्दहेतुत्वं त्वनिष्क्रमणस्यायुक्तत्वं विना नोपपद्यते इत्येतावन्मात्रं तु शेषावयव. | विवक्षारहितं कारण, अनयोः पृथगुपादानं तु साधनवाक्यवैचित्र्यरचनार्थमिति ध्येयं । 'तओत्ति' ततः प्रेरणानन्तरं नमिराजर्षिर्देवे| न्द्रमिदमब्रवीदिति सूत्रार्थः।। ८॥ यदवादीत्तदाहमूलम्-मिहिलाए चेइए वच्छे, सीअच्छाए मणोरमे । पत्तपुप्फफलोवेए, बहूणं बहुगुणे सया ॥ ९॥
व्याख्या-मिथिलायां पुरि, चितिरिह प्रस्तावात् पत्रपुष्पायुपचयस्तत्र साधु चित्य चित्यमेव चैत्यमुद्यानं तस्मिन् 'वच्छेति' | स्त्रत्वावृक्षो विद्यत इति शेषः। कीदृशः इत्याह-शीतच्छायः शीतलच्छायो मनोरमो मनोरमाभिधः पत्रपुष्पफलोपेतो बहूनां प्रक्रमात् खगादीनां बहुगुणः फलादिभिभृशमुपकारी सदा सर्वकालं, एकारश्चात्र मत्रे सर्वत्र मागधभाषानुसरणात् ज्ञेय इति स्त्रार्थः॥९॥ तत्र किमित्याहमूलम्-वारण हीरमाणमि, चेइअंमि मणोरमे। दुहिआ असरणा अत्ता, एए कंदति भो! खगा ॥ १० ॥
॥१५॥
man