________________
उचराध्ययनसूत्रम्
॥३४॥
|
| चिन्तयन्तो महाधियः ॥ ३ ॥ तत्रत्याः श्रावका धन्यं - मन्याः सम्यगुपाचरन् । तद्योग्यैः स्निग्धमधुरै -राहारैरौषधैश्च तान् ॥ ४ ॥ [ युग्मम् ] गुरुकर्म भराक्रान्ता निःस्नेहाः स्वगुरावपि । अन्यदा तत्समीपस्थाः, कुशिष्या व्यमृशन्निति ॥ ५ ॥ अस्माभिः पालनीयोऽयं, कियच्चिरमजङ्गमः । स्थेयं चात्र कियत्कालं, कारायामित्र बन्दिभिः ॥ ६ ॥ ततः केनाप्युपायेन, कार्यतेऽनशनं गुरोः । मृतेऽस्मिन् बंधनोन्मुक्ता, विहरामो यथा वयम् ॥ ७ ॥ विमृश्येति पुरः सूरे - रन्तप्रान्ताशनादिकम् । उपनीय स्फुरत्खेदा इत्रैवं ते जडा | जगुः || ८ || ईदृशामपि युष्माकं, योग्यमन्नौषधादिकम् । सम्पादयन्ति न श्राद्धा, धनिनोऽप्यविवेकिनः ॥ ९ ॥ निर्विण्णास्तदमी नूनं, श्रावका नित्यदानतः । भवेयुर्नीरमा भूरि- पीडनान्नक्षवोऽपि किम् ? ॥ १० ॥ अकिंचना वयं तत्किं कुर्मो दत्तोपजीविनः । कुतः सम्पादयामश्च युष्मद्योग्याशनादिकम् ॥ ११ ॥ गुरोः पुरो निगथेति ते भिक्षायै गताः पुनः । सूरियोग्यं न जगृहु-र्गृहिदत्ताशनादिकम् । १२ ।। तद्ग्राहणार्थं चात्यर्थ- मग्राहे श्रावकैः कृते । ते प्रोचुर्गुरवो नेदं प्रणीतं भुञ्जतेऽधुना ॥ १३ ॥ किन्तु संलेखना - हेतो- रल्पाल्पं रसवर्जितम् । गृह्णति सूरयो भक्तं, स्वदेहेऽपि गतस्पृहाः ॥ १४ ॥ तच्छ्रुत्वा श्रावकाः खेद-भरभंगुरमानसाः । गुरुपार्श्वमुपेत्यैवं, जगदुर्गगदाक्षरम् ||१५|| जिनेषु विश्वसूर्यषु चिरातीतेष्वपि प्रभो ! । युष्माभिः शासनं जैनं, भाति वेश्मेव दीपकैः।। १६ ।। अकालेऽपि तदारेभे, पूज्यैः संलेखना कुतः ? | अप्रस्तावे हि नो कार्य - मारभन्ते भवादृशाः ॥ १७ ॥ निर्वेदहेतुरेतेषा - महं भावी| त्यपि स्वयम् । न चिन्तनीयं स्वप्नेऽपि भगवद्भिर्युगोत्तमैः ॥ १८ ॥ शिरःस्था अपि यद्ययं जगत्पूज्यपदाम्बुजाः । नास्माकं न विनेयानां, चामीषां भारकारिणः ॥ १९ ॥ इदानीं तन्न कर्तव्यः पूज्यैः संलेखनाग्रहः । श्रुत्वेती ङ्गितवित्सूरि-रिति चेत स्यचिन्तयत् || २० || नूनमस्मद्विनेयानां सर्वमेतद्विजृम्भितम् । तदमीभिः कृतं प्राणै- रेषां निर्वेदहेतुभिः ॥ २१ ॥ धर्मार्थिना हि नान्येषां,
अध्य० १ ॥३४॥