________________
पाल
उत्तराध्यपनपत्रम् ॥३३॥
निर्पणो मां हन्तीति । अथवा वाग्भिरेव कल्याणं 'अणुसासंतोत्ति' गुरुणा अनुशास्यमानः शिक्ष्यमाणः पापदृष्टिः कुशिष्यः खड्डुकादिरूपा गुरुवाचो मन्यते इति सूत्रार्थः ॥ ३८॥ विनीताध्यवसायमाह
अध्य०१ मूलम्-पुत्तो मे भाय णाइत्ति, साहु कल्लाण मण्णइ। पावदिट्ठी उ अप्पाणं, सासं दासित्ति मण्णइ ॥३९॥ | ॥३३:
व्याख्या-अत्र इवार्थस्य गम्यमानत्वाद्विभक्तिव्यत्ययाच पुत्रमिव भ्रातरमिव ज्ञाति स्वजनमिव 'मे' इति मां अयमाचार्योऽनुशास्तीत्यध्याहारः, इत्येवं साधुः सुशिष्यः कल्याणकारि अनुशासनं मन्यते, यतः स शिष्य एवं विचारयति, यत्सौहार्दादेष मामनुशास्ति, दुर्विनीतत्वे हि मम किमस्य परिहीयते ? किन्तु ममैवार्थभ्रंश इति । बालः पुनः किं मन्यते ? इत्याह-पापदृष्टिस्तु कुशिष्यः पुनरात्मानं 'सासंति' शास्यमानं दासमिव मन्यते, यथेष दासमिव मामाज्ञापयतीति सूत्रार्थः ॥ ३९ ॥ विनयसर्वस्वमाहमूलम्-ण कोवए आयरियं, अप्पाणंपि ण कोवए । बुद्धोवघाई ण सिआ, ण सिया तोत्तगवेसए॥४०॥
व्याख्या-न कोपयेन्न कोपवशगं कुर्यात्तादृशवचनादिभिराचार्य, उपलक्षणत्वादन्यमपि विनयाह, आत्मानमपि गुरुभिः परुभाषणादिनाऽनुशिष्यमाणं न कोपयेत् , कथंचित्सकोपतायामपि बुद्धोपघाती आचार्याधुपघातकारी न स्यान्न भवेत् उदाहरणं चात्र, तथाहि
गच्छे कापि पुरोऽभूवन् , गणिसंपत्समन्विताः। युगप्रधानाः प्रक्षीण-पाप्मानः सूरिपुङ्गवाः ॥१॥ चिकीर्षवोऽपि ते सम्यग् , | विहारं मुनिनायकाः । क्षीणजंघापला निल्यं, पुरे क्वाप्यवतस्थिरे। २॥ सत्स्वेतेषु मुनीन्द्रेषु, जिनशासनभानुषु । तीर्थ सनाथमस्तीति,
++CKSTAR
+
MG