SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अब०१ उपराज्य सुनिष्ठितोऽयं प्रासादकपादिः, सुलष्टोऽयं करितुरगादिरिति सामान्येनैव सावधं वर्जयेन्मुनिरिति । अनवद्यं तु सुकृतमनेन धर्मध्यानादि, बनरत्रम् सुपकमस्य वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतोऽयं शिष्यः स्वजनेभ्य उत्पाबाजयितुकामेभ्यः, सुमृतमस्य पंडितमरण- का मर्तुः, सुनिष्ठितोऽयं साध्वाचारे, सुलष्टोऽयं दारको व्रतग्रहणस्येत्यादिरूपं वाक्यं वदेदपीतिसूत्रार्थः ॥ ३६॥ संप्रति विनीतेतरयोरुपदेशदाने गुरोर्यत्स्यात्तदर्शयन्नाहमूलम्-रमए पंडिए सासं, हयं भई व वाहए । बालं सम्मइ सासंतो, गलिअस्सं व वाहए ॥ ३७ ॥ व्याख्या-रमते अभिरतिमान् भवति, पंडितान् विनीतशिष्यान् शासदाज्ञापयन् प्रमादस्खलिते शिक्षयन् वा गुरुरिति शेषः, * कमिव क इत्याह-हयमिवाश्चमिव भद्रं कल्याणावहं वाहकोऽश्वदमः । बालमज्ञं श्राम्यति खिद्यते शासत् , स हि सकृदुक्त एव कृत्यं न कुरुते, ततश्च पुनः पुनस्तमाज्ञापयन् गुरुः श्राम्यत्येवेति भावः, अत्रापि दृष्टांतमाह-गल्यश्वमिव वाहक इति सूत्रार्थः ॥ ३७॥ | गुरुशिक्षणे बालस्याशयमाहमूलम्-खडुओ मे चवेडा मे, अक्कोसा य वहा य मे । कल्लाणमणुसासंतो, पावदिहित्ति मण्णइ ॥३८॥ व्याख्या-खड्डुकाः टक्करा मे मम, चपेटाः करतलाघाता मे, आकोशाच निष्ठुरभाषणानि मे. वधाश्च दंडादिधाता मे, अयंभावः-खड्डुकादय एव मे गुरुणा दीयन्ते नत्वन्यत्किमपि समीहितमस्तीत्यनुशास्यमानो बालश्चिंतयति, अन्यच्च-कल्याणमिहपरलो कहितं 'अणुसासंतोचि' विभक्तिव्यत्ययादनुशासतं शिक्षयन्तं गुरुं पापदृष्टिः पापबुद्धिरयमाचार्य इति स मन्यते, यथा पापोऽयं गुप्ति +444444434
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy