________________
अध्य
निजं जन्म, कृतार्थ भ्रातृसङ्गमात् ॥ २१३ ।। तश्च क्रमागते राज्ये, न्यस्य चन्द्रयशा नृपः॥ परित्रज्यामुरीकृत्य, विजहार वसुन्धराम्
॥ २१४ । पाकशासनवच्चण्ड-शासनोथ नमिनृपः । न्यायाम्बुजारुणो राज्य-द्वयमवशिषचिरम् ॥ २१५ ॥ बनसूत्रम्
अथान्यदा तस्य देहे, दाहोभूदतिदुःसहः ।। भूपो नाप रतिं क्वापि, व्याधिना तेन बाधितः ॥२१६। चिकित्सा विविधास्तस्य, ॥९ ॥
| व्याधेश्चक्रुश्चिकित्सकाः ॥ तास्तु तत्राभवन्मुढे, हितशिक्षा इवाफलाः॥२१७॥ ततो वैद्यैः परित्यक्तो-ऽसाध्योयमितिवादिभिः॥ खर्भानुरिव शीतांशु, स रोगोऽपीडयन्नृपम् ॥ २१८ ॥ तदा च चन्दनरसै, राज्ञः किञ्चिदभून्सुखम् । इति तं सकला राज्यो, नियं खयमघर्षयन् ॥ २१९॥ तदाहुकङ्कणगण-रणत्कारमहारवः ।। राज्ञो रोगातुरस्याभू-स्कर्णाघातकरो भृशम् ॥ २२० ॥ शोकार्तस्य | मृदङ्गादि-नादवन्मम रोगिणः ॥ दुःखाकरोति शब्दोय-मिति राजा जगौ ततः ।। २२१ ॥ तच्चाकर्ण्य क्रमाद्राग्यो, राज्ञः सौख्यकृते स्वयम् ॥ एकैकमेकशेषाणि, कङ्कणान्युदतारयन् ॥ २२२ ॥ एकैकं तत्तु कल्याण-हेतवे दधिरे करे ॥ तदा च नाभवत्कोला-हलश्चन्दनघर्षणे ॥ २२३ ॥ नृपोवादीत्ततो यन्न, श्रूयते कङ्कणध्वनिः ॥ तन्मन्ये चन्दनं देव्यो, न घर्षन्ति प्रमद्वराः ॥ २२४ ॥ मन्त्री प्रोचे प्रभो ! देव्यः, सर्वा घर्षन्ति चन्दनम् ॥ परमेकाकिभावेन, शब्दायन्ते न कङ्कणाः ।।२२५|| तदाकर्ण्य नृपो दध्यौ, शान्तमोहो |
महाशयः ॥ बहूनां सङ्गमे दोषः, स्यादेकस्य तु न कचित् ।। २२६ ॥ वलयानामपि मिथो, घर्षणं वसतामभूत् ॥ एकाकिनां तु | 15 तन्नेव, तेषां सम्प्रति जायते ॥ २२७ ॥ सङ्गस्तदखिलो दुःख-कारणं प्राणिनां भवे ॥ एकत्वं तु महानन्द-हेतुः स्यात्सङ्गवर्ज-||
नात् ॥ २२८ ।। तच्चेच्छाम्येदयं दाह-स्तदाहं व्रतमाददे ॥ ध्यायन्निति प्रसुप्तो द्राग्, निद्रासुखमवाप सः ।। २२९ ।। तस्यां कार्तिकराकायां, रात्रौ तस्य महीपतेः ॥ दाहः पाण्मासिकः सद्यो-ऽशाम्यत्पुण्यप्रभावतः ।। २३० ॥ प्रभाते च तनूभूत-तन्द्रः स्वप्ने ददर्श
॥९
॥