SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ उत्तराज्य यनसूत्रम् ॥९०॥ ॥९०॥ पानीक - मकराकरकुम्भभूः ।। १९५ ।। तश्चायान्तं चरैर्ज्ञात्वा चन्द्रभूपोप्यमिव्रजन् । विरुद्धविहगैर्ज्ञानि - पुरुषैरिव वारितः ॥ १९६॥ ततस्तं सचिवाः प्रोचुः पुरं पिहितगोपुरम् ॥ कृत्वा तिष्ठ प्रभो ! पश्चात्करिष्यामो यथोचितम् ॥ १९७ ॥ चन्द्रोपि तत्तथा चक्रे, | नमिश्रागत्य तत्पुरम् || बलेनावेष्टयद्विष्वग्, भोगेनेव निधिं फणी ॥ १९८ ॥ तच श्रुत्वा जनश्रुत्या, सुत्रतार्यां व्यचिन्तयत् ॥ इमौ जनक्षयं कृत्वा, मास्म यातामधोगतिम् ।। १९९ ।। तदेनौ बोधयामीति, ध्यात्वाऽऽपृच्छय महत्तराम् ॥ साध्वीभिः संयुता सागा| त्समीपे नमिभूभुजः ॥ २०० ॥ तां प्रणम्यासनं दत्वा, नमिर्भुवि निविष्टवान् || आर्यापि धर्ममाख्याय, तमेवमवदत्सुधीः ॥ २०१ ॥ | राजन्नसारा राज्यश्री - भगाश्चायतिदारुणाः । गतिः पापकृतां च स्या - नरके दुःखसङ्कुले || २०२ ।। तद्विमुञ्चाहवं को हि, ज्येठभ्रात्रा सहाहवः ९ नमिः प्रोचे कथमयं स्यान्मम ज्येष्ठसोदरः १ ॥ २०३ ॥ ततः साध्वी जगौ तस्मै, स्ववृत्तान्तं यथास्थितम् || नमिस्तथाप्यहङ्कारा-न्नामुचद्विग्रहाग्रहम् || २०४ || साथ मध्ये पुरं चन्द्र- यशः पार्श्वे ययौ द्रुतम् ॥ सोपि तां प्रत्यभिज्ञाय, ननामाश्रुजलाविलः ॥ २०५ ॥ दत्वाथ विष्टरं तस्यै, क्षितिनाथे क्षितौ स्थिते ॥ तां शुद्धान्तजनोप्येत्या-नमद्वाष्पायितेक्षणः || २०६ || अथ चन्द्रयशाः साध्वी - मित्यूचे - गद्गदाक्षरम् || अङ्गीकृतं त्वया मातः ! किमिदं दुर्धरं व्रतम् ? ॥ २०७ ॥ साध्याथ स्वीयवृत्तान्ते, तस्मै तस्मिन्निवेदिते । सहोदरः स मे क्वास्ती - त्यपृच्छत्तां स पार्थिवः ।। २०८ || आर्या जगाद येन त्वं, रोधितोसि स तेऽनुजः ॥ | तदाकर्ण्य महानन्द-मविन्दत महीधवः ॥ २०९ ॥ ययौ च सोदरं द्रष्टु-मुत्सुकः सोऽतिसत्वरम् ।। स्नेहातिरेकपाथोद - शान्तदर्पदवानलः |||२१|| तश्चायान्तं निशम्यागा - भमिराजोपि संमुखः । भून्यस्तमस्तकः पादा-वग्रजस्य ननाम च ॥ २११ ॥ तञ्चानमन्तं चन्द्रोपि, दोर्भ्यामादाय सादरम् | परिरेमे दृढं स्नेहा दे कीकुर्वन्निवात्मना ॥ २१२ ॥ महोत्सबैर्महीयोभि- स्तञ्चप्रावीविशत्पुरे ॥ मन्यमानो अध्य९ በ
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy